SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ २४ अलङ्कारशेखरे - इदानीं वैशेषिकान्गुणानाह- पदवाक्यतदर्थेषु ये दोषाः पूर्वमीरिताः ॥ तेषां कश्चिददोषत्वं यत्तद्वैशेषिको गुणः ॥ १ ॥ उक्तानामेव दोषाणां विषयावस्थादिभेदाद्यददोषत्वं तदेव वैशेषिको गुण इत्यर्थः (१) । केचित्तु - एतेषामेव दोषाणां स्थानेष्वेतेष्वदोषता । परं नत्वस्ति गुणता पार्थक्यमनयोर्यतः ॥ अन्ये तु कचिददोषतामात्रम्, कचिगुणतापि । तत्र सहृद यानामेत्र प्रतीतिः साक्षिणी । तदाहु: अलङ्कारे गुणे दोषे रसे वा काव्यसम्पदाम् प्रतीतिरेव विदुषां प्रमाणमवसीयते ॥ C श्लेषादी नाप्रयुक्तता ॥ श्रीपादस्तु - 'रसोत्पत्तिप्रतिबन्धकतयैवैतेषां दोषता । यत्र केनापि निमित्तेन न रसप्रतिबन्धः, तत्रादोषत्वमुचितमेवेत्याह । तंत्र पदेषु यथासम्भवमाहअनुप्रासेषु नो कष्टम् यथा - 'महाराष्ट्रेषु नोष्ट्रिणः' इत्यादौ । 1 यथा येन ध्वस्तमनोभवेन बलिजित्कायः पुरात्रीकृतो योगङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामाऽमराः सोऽव्यादिष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः ॥ अत्र क्षपशब्दो गृहे । मिषस्तुतौ (२) न सन्दिग्धम् (१) वैशेषिक गुणत्वमित्यर्थः - इति कपु० पाठः । (२) मिथः स्तुती -- इति क, खपु० पाठः ।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy