________________
अलङ्कारशेखरे -
भोजराजस्तु -
शस्ता विदग्धगोष्ठीषु वैदर्भी रीतिरुत्तमा । मागधी मध्यमा गौडी गोडी कलहायते ॥ यदाह-
ब्रह्मन् ! विज्ञापयामि त्वां स्वाधिकार जिहासया । गौडस्त्यजतु वा गाथामन्या वाऽस्तु सरस्वती ॥ उक्ति विभजते-
लोकच्छेकार्भ कोन्मत्तभेदादुक्तिश्चतुर्विधा ॥ ३ ॥
तत्र लोकोक्तिर्यथा
-
―
शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ
शेषान्मासान् गमय चतुरो लोचने मीलयित्वा ।
पश्चादानां विरहगुणितं तं तमात्माभिलाषं
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ इत्यादौ (१) 'लोचने मीलयित्वे 'ति । छेको विदग्धस्तस्योक्तिर्यथा
योऽतिदीर्घासिताक्षस्य विलासचलितभ्रुवः । कान्तामुखस्यावशगस्तस्मै नृपशवे नमः ॥ अत्र 'नृपशव' इति । अर्भकोक्तिर्यथा-
स कि स्वर्गतरुः कोऽपि यस्य पुष्पं निशाकरः । मातस्ते कीदृशा वृक्षा येषां मुक्ताफलं फलम् ॥ अत्र 'पुष्पं निशाकरः, फलं मुक्ताफल' मिति । उन्मत्तोक्तिर्यथाकाकार्ये शशलक्ष्मणः कच कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय नः (२) श्रुतमहो ! कोपेऽपि कान्तं मुखम् ।
( १ ) इत्यादी लोचने मीलयित्त्वेति इदं कपुस्तके नास्ति । (२) दोषाणामुपशान्तये - इति गपु० पाठः ।