________________
प्रथमरने द्वितीयमरीचिः।
किं वक्ष्यन्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा ..
चेतः ! स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥ अत्र विरहोन्मत्तस्यैवमभिधानम् । विन्यासविशेषवशाधना. ऽभिप्रायविशेषलाभेन मुदो हर्षस्योत्पत्तिः सा मुद्रा । तामिदानी विभजते-.
मुद्रा पदस्थ वाक्यस्य विभक्तर्वचनस्य च ॥ ४ ॥ तत्र पदमुद्रा यथा - निर्माल्यं नयनश्रियः कुवलयं वक्त्रस्य दासः शशी
भ्रूयुग्मस्य सनाभि मन्मथधनुज्योत्स्ना स्मितस्पाञ्चलम् । सङ्गीतस्य च मत्तकोकिलरुतान्युच्छिष्टमेणीदृशः
सर्वाकारमहो ! विधेः परिणतं विज्ञानशिल्पं चिरात् ।। अत्र निर्माल्या'दिपदानां गौणवृत्याऽभिप्रायविशेषान्मुत्प्रदायिता। वाक्यमुद्रा यथा--
रामे तटान्तवसतौ कुशतल्पशायि
न्यचापि नाम भवतो भगवन्ननास्था । स्मृत्वा तदेहि सगरं च भगीरथं च
दृष्ट्वाऽथवा मम धनुश्च शिलीमुखांश्च ॥ अत्र 'सगरं च भगीरथं चेत्यादिवाक्यस्य प्रागुपकारा. भिप्रायेण दृष्ट्वा(१) यावदपकारसामर्थ्याभिप्रायेण निवेशनान्मुत्म. दायिता । विभक्तिमुद्रा यथा-- श्रियं प्रदुग्धे विपदो रुणद्धि यशासि सूतेऽविन्यं प्रमाटिं। संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः किल कामधेनुः ।। __ अत्र 'प्रदुग्ध' इत्यादितिविभक्तीनां द्वयोर्दिकर्मकयोनिवेशनान्मगल्याऽमङ्गल्यार्थकानामपि.मङ्गल्य एवाभिप्रायवशाद्विभक्ति
(१) दृष्टाऽन्यादेरपकार--इति गपु० पाठः ।