________________
प्रथमरने द्वितीयमरीचिः ।
तत्र ( १ ) रीतिमाह - तत्तद्रसोपकारिण्यस्तत्तद्देशसमुद्भवाः ॥ २ ॥ पद्येषु रीतयो गौडी वैदर्भी मागधी तथा ॥ तदेतत्पल्लवयन्ति श्रीपादा:--
गौडी समास भूयस्त्वाद्वैदर्भी च तदल्पतः । अनयोः सङ्करो यस्तु मागधी साऽतिविस्तरा ॥ गौडीयैः प्रथमा मध्या वैदर्भ मैथिलैस्तथा । अन्यैस्तु चरमा रीतिः स्वभावादेव सेव्यते ॥ तत्र गौडी यथा --
उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर
क्रीडस्को किलकाकली कलकलैरुद्गीर्णकर्णज्वराः । नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षणप्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥
の
वैदर्भी यथा
मनीषिताः सन्ति गृहेषु देवतास्तपः क वत्से ! कच तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ! मागधी यथा-
पाणौ पद्मधिया मधूककुसुमभ्रान्त्या पुनर्गण्डयोनीलेन्दीवरशङ्कया नयनयोर्बन्धूक बुद्ध्याऽधरे । लीयन्ते कबरीषु बान्धवजनव्यामोहजातस्पृहा दुर्वारा मधुपाः क्रियन्ति तरुणि ! स्थानानि रक्षिष्यसि (२) । इयं बहुप्रकारेति (३) विस्तृतमन्यत्र ।
( १ ) तत्र रीतिमाह - इति कपुस्तके नास्ति ।
( २ ) संरक्षसि - इति गपु० पाठः ।
( ३ ) इयं च बहुधा - इति कपु० पाठः ।