________________
अलङ्कारशेखरे
गद्यं पद्यं च मिश्रं च तत्रिधैव व्यवस्थितम् ॥ गद्यमुत्कलिकामा पद्यगन्धीति च द्विधा । तत्रापि पयं तदपि वृत्तकं वर्णमात्रयोः ॥ समवैषम्यभेदेन तदानन्त्याय कल्पते ।
दण्डिनस्तु -
तदेतद्वाङ्मयं भूयः संस्कृतं प्राकृतं तथा । अपभ्रंशश्च मिश्रं चेत्याहुरार्या ( १ ) श्चतुर्विधम् ॥ प्राकृतं तज्जतत्तुल्यदेश्यादिकमनेकधा । अपभ्रंशश्च यच्छुद्धं तत्तद्देशेषु भाषितम् ॥ संस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादिकम् । आसारादि स्वपभ्रंशो नाटकादि तु मिश्रकम् ॥ यथामति यथाशक्ति यथौचित्यं यथारति । कवेः पात्रस्प चैतासां प्रयोग उपपद्यते ॥
इत्यलङ्कारशेखरे उपक्रमरने काव्यस्वरूपफलकारणमरीचिः ।
शरीरकल्पस्य काव्यस्य रूपान्तरमाहरीतिरुक्तिस्तथा मुद्रा वृत्तिः काव्यस्य जीवितम् ( २ ) ॥ त्रिविधस्यापि दोषास्तु त्याज्याः श्लाघ्या द्वये गुणाः ॥ १ ॥
अलङ्कारस्तु शोभायै रस आत्मा परे मनः ॥
द्वय - इति शब्दार्थभेदात्रितयान्वयि । परे - रसदोषाभावानु
कूलवर्णादयः ।
( १ ) राप्ता - इति गपु० पाठः ।
( २ ) जीवनम् - इति गपुर पाठः ।