________________
प्रथमरने प्रथममरीचिः ।
।
व्युत्पत्तिर्नानातन्त्रज्ञानम् । आहुश्चशक्तिर्निपुणता लोकशास्त्र काव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे ।। शक्तिः पुण्यविशेषः । स एव प्रतिभेत्युच्यते । व्युत्पत्तिः शक्तिरभ्यासस्त्रितयं काव्यसाधनम् । इत्यपि । श्रीपादस्तु - परिशीलितकान्यवर्त्मनां कविसंसर्गविशुद्धचेतसाम् । परिभावयतामनुक्षणं कविता पाणितले निषीदति ॥ वृद्धास्तु - (१)
नैसर्गिकी च प्रतिभा श्रुतं च बहुनिर्मलम् । अमन्दश्चाऽभियोगोऽस्याः कारणं काव्यसंपदः ॥ मनःप्रसत्तिः प्रतिभा प्रातःकालेऽभियोगिता | अनेकशास्त्रदर्शित्वमित्यर्था लोकहेतवः ॥ द्वित्रिकोषपरिज्ञानं द्वित्रिव्याकरणज्ञता । छन्दोविद्याप्रवीणत्वं काव्येऽवश्यमपेक्ष्यते ॥ आदिपदात्मकारपरिज्ञानम् । तथाहि - सा खल्वेषा भारती सुरसरिदिव सहस्रमु (२)ख्यपि संक्षेपेण चतुर्धा प्रवर्तते ।
तदाहु:
संस्कृतं प्राकृतं चैत्र पैशाची मागधी तथा । विद्याश्चतस्र एवैताः संक्षेपात्काव्यवर्त्मनः ॥ देवाद्याः संस्कृतं प्राहुः प्राकृतं किन्नरादयः । पैशाची च पिशाचाद्या मागधी हीनजातयः ॥ चतसृष्वपि मूर्धन्यं संस्कृतं मुनयो विदुः ।
(१) वृद्धास्तु - इति कपुस्तके नास्ति । (२) मुखापि -- इति पु० पाठः ।