________________
अलङ्कारशेखरेइति । प्रवृत्यौपयिकं फलमाह--
हिताय सुकविः कुर्यात् सुकवेरेव हितमन्यस्य तु प्रतिकूलं(१) तत् । तदुक्तं च--
गौ!ः कामदुधा सम्यक् प्रयुक्ता स्मयते बुधैः । दुष्पयुक्ता पुनर्गोत्र प्रयोक्तुः सैव शंसति ॥ श्लाघ्यः पामरपरिषदि कविरिति(२) होलाककर्तापि । यस्मै स्पृहयति विद्वाँस्तकाव्यं काव्यमित्याहुः ॥ अर्थेः कृतार्थयन्त्येके घटनापटवः परे ।
उभयत्र प्रवीणा ये त एव कर यो मताः ॥ हितमाह श्रीपादः--
लाभः पूजा ख्यातिधर्मः कामश्च मोक्षश्च । इष्टानिष्टमाप्तित्यागी ज्ञानं फलानि कान्यस्य ॥ इष्टेति गोषन्यायात् । आहुश्चकाव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासमिततयोपदेशयुजे ॥ वृद्धास्तु
श्रोतृणां द्राङ् महानन्दः स स्वस्मिन्नाभिमानिकः ।
तत्कालफलमेतावत् क्रमात्कीर्तिधनादिकम् ॥ ननेवं सर्वः सुकविरेच स्यात् , अत आह
तहेतुः प्रतिभादिकम् ॥ १॥ तदाह- .. . ... .. ... ...
प्रतिभा कारणं तस्य व्युत्पत्तिस्तु विभूषणम् । भृशोत्पत्तिकदभ्यासः काव्यस्यैषा व्यवस्थितिः । (१) प्रतिकूलमिति तन्न-इति कपु० पाठः । (२) कवयति दोलीककर्तापि-- इति क,खपुस्तकयोः पाठः ।