________________
प्रथमरने प्रथममरीचिः ।
आदिपदेनालङ्कारपरिग्रहः । तथाच-तदुभयान्यतरवत्व वा लक्षणम् । अन्यतरत्वं च तदन्यान्यत्वम् । मुखविशेषसाध. नत्वं वा लक्षणम् । समुदायार्थशून्येऽपि तदुभयमस्त्येवेति वृ. द्धाः । अदृष्टद्वारा तहेतुशब्देऽतिव्याप्तेराह-श्रुतमिति । सदिति शेषः । सुखे वैजात्यं सर्वानुभवसिद्धमेव । केचित्तुतददोषौ शब्दार्थों सगुणावनलङ्कती पुनः कापि ।
इत्याहुः। रसमतिपत्ति(१)द्वारा सुखविशेषसाधनं वाक्यं(२) काव्यमित्यपरे। केचित्तु- पदावली काव्यम् , नतु निर्दोषगु. वदादि । काव्यदोषाणामपरिगणनापत्तेः । नच दोषाभावघटि. तकाव्यत्वज्ञानार्थमेव प्रतियोगिपरिगणनमिति वाच्यम् । त. वैत(३)त्काव्यं दुष्टमित्यनुद्भावनापत्तेः । इदं काव्यमेव नेसभिधानस्यैवोचितत्वा'दित्याहुः । तन्न, तवायं हेतुराभास इतिवदुप. पत्तेः। व्याप्तिविशिष्टपक्षधर्मस्यैव हेतुत्वात् । नच हेतुत्वेना. ऽभिमत इति वाच्यम, तुल्यत्वादिति । वस्तुतस्तु तत्काध्यं पृथगेव, यत्र दोषगुणादिचिन्ता। नहि दुष्टं शरीरं शरीरमेव न भवतीत्यन्ये । कादिरूपफलसाधनता तु विशिष्टस्य ।
यदाहसाधुशब्दार्थसन्दर्भ गुणालङ्कारभूषितम् । स्फुटरीतिरसोपेतं काव्यं कुर्वीत कीर्तये ॥ आहुश्व-- निर्दोष गुणवत्काव्यमलङ्कारैरलङ्कतम् ।
रसान्वितं कविः कुर्वन् प्रीति कीति च विन्दति ।। (१) प्रतिपत्तिगुणद्वारा-इति कपुस्तके पाठः । (२) वाक्यं--इति कपुस्तके नास्ति । (३) नचैतत्--इति खपु० पाठः।