________________
अलङ्कारशेखरेपश्चान्मांसास्थिमेदःकलुषितवमुधां पोज्य ताँश्चाकलय्य
द्यां यातान् वैरिवर्गान् दिवमपि सहसा जेतुकामो जगाम ॥ क्षीराम्भोधेः शशीव श्रुतिरिव वदनाद्वेधतो रामचन्द्रा.
दस्मादुद्यत्प्रताप: समजनि सुमना धर्मचन्द्रो नरेन्द्रः। यस्याद्यापि प्रसन्नस्मितमुभगमुखाः स्विद्यदश्चकपाला
रोमाञ्चस्तम्भभव्यास्त्रिदशयुवतयो हन्त ! गायन्ति कीर्तीः । निष्क्रान्तं सदनादुदक्षि भगवानम्भोजिनीवल्लभ.
स्ते वाता: परिशीलिताः कमलिनीसौरभ्यमेदस्विनः । विश्रान्तं गिरिकाननेषु निबिडच्छायेषु भाग्योदयादित्यं स्मरेमुखाः स्तुवन्ति विपदं यद्वैरिवामभ्रवः ।। प्रत्यर्थिभूपतिपरिग्रहराज्यलक्ष्मी.
धम्मिल्लमाल्यसुरभीकृतपाणिपनः । तस्मादजायत समस्तगुणाभिरामो
माणिक्यचन्द्र इति राजकचक्रशक्रः ।। काव्यालङ्कारपारङ्गममतिरखिलक्ष्माभृतां चक्रवर्ती
सर्वेषामस्तु काव्ये मतिरतिनिपुणेत्याशये सन्निवेश्य । वेदान्तन्यायविद्यापरिचयचतुरं केशवं सनियुज्य
श्रीमन्माणिक्यचन्द्रः क्षितिपतितिलको ग्रन्थमेनं विधत्ते ॥ बहुदोषोऽपि विदोषः क्रियते सुजनेन बाण इव हरिणा। गुणवदपि निर्गुणीयति दुर्जनतो मूषिकात इव पुस्तम् ॥
परोकेंगे परानन्दे खलसज्जनयाईयोः ।
स्वभाव एव शरणं विषपीयूषयोरिव ॥ अलङ्कारविद्यासूत्रकारो भगवान् शौद्धोदनिः परमकारु. णिकः स्वशास्त्रे प्रवर्तयिष्यन् प्रथमं काव्यस्वरूपमाहकाव्यं रसादिमद्वाक्यं श्रुतं सुखविशेषकृत् ॥