SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः ॥ केशवमिश्रकृतः अलङ्कारशेखरः। प्राणान् कृशोदरीणां राधानयनान्तसर्वस्वम् । तेजस्तमालनीलं शरणागतवज्रपञ्जरं वन्दे ॥ स्वप्रकाशचिदानन्दमयाय परमात्मने । अविद्यानिबिडध्वान्तभास्कराय नमोऽन्यहम् ॥ ग्रन्थाः काव्यकृतां हिताय विहिता ये सप्त पूर्व मयाँ ते तर्कार्णवसंप्लवव्यसानिभिः शक्याः परं वेदितुम् । इत्यालोच्य हृदा मदालसवधृपादारविन्द कण न्मीरध्वनिमञ्जुलोऽयमधुना प्रस्तूयते प्रक्रमः ॥ आसीत्प्रत्यर्थिपृथ्वीरमणकमलिनीन्दहेमन्तमासः कीर्तिभ्राजत्सुशर्मान्वयकुमुदवनीयामिनीजीवनाथः । राजद्राजन्यराजीमुकुटमणिगणप्रोल्लसत्पादपीठः प्रोद्यत्साम्राज्यलक्ष्मीशिथिलितनहुषो रामचन्द्रोऽवनीन्द्रः ॥ मित्राणि प्रतिपालयस्त्रिजगती कीर्तीन्दुनाऽऽहादयन् शत्रूणां हृदयं प्रतापदहनै रात्रिंदिवं ज्वालयन् । सर्वस्वेन कृतार्थयन द्विजगणान देवान् मखैस्तोषय मेष प्रौढमनाचिराय बुभुजे सप्तार्णवां मेदिनीम् ॥ सुत्रामोद्दामदिल्लीपरिवृढविलसत्काविलक्षाणिभत्रों: - प्रक्रान्ते प्रौढयुद्ध समदलयदसौ कोटिशो वैरिवीरान् ।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy