________________
प्रस्तावना
शेषः प्रतीयते, सर्वमन्यत्समानमेव ग्रन्थान्तरेण । इत्थमत्राऽल्पीयस्यपि गुणगौरवेण श्लाघनीये अलङ्कारशेखरप्रबन्धे कविना चातुर्येण सर्वे विषयास्तथा समावेशिताः, यथाऽसौ ग्रन्थः सहृदयानामुपकाराय भूयसे मनोविनोदाय च प्रभवेत् ।
ग्रन्थकारपरिचयः । ग्रन्थपरिचयौपयिकमेतावन्तं विषयं विलिख्य साम्प्रतं ग्रन्थकारस्य परिचयं प्रदर्शयितुं समयादिकं च निरूपयितुं प्रसङ्गतोऽत्र ग्रन्थे समा. पतितानां ग्रन्थकाराणां च पारचयं प्रदातुमुपक्रम्यते । तत्र तावत् का रिकाकर्ता ग्रन्थकारयिता ग्रन्थकर्ता चेति त्रयाणां परिचयप्रदानं कर्तुः मावश्यकमिति पूर्व कारिकाकर्तुविषये किश्चिदुच्यते-प्रबन्धान्तर्गतः कारिकाभागो यः किल सूत्रनाम्ना व्यवह्रियते, शौद्धोदनिनाविरचितो. ऽस्तीत्युपक्रमोपसंहाराभ्यां सिद्धमेव । स चायं शौद्धोदनिर्वामनश्चेति द्वावेव अलङ्कारसूत्रकारत्वेन प्रसिद्धौ । ईशवीयद्वादशशताब्द्या अनन्तरं कारिका निर्मितेति संम्भाव्यते । शौद्धोदनिरिति वास्तविक नाम ? आहोस्विद्वौद्धमतानुयायिनोऽलङ्कारसूत्राणि प्रणेतुः कस्यापि स्वेष्टदेवतानुकूलस्तादृशः सङ्केतो वेत्येतद्विषये किमपि नैव निश्चेतुं शक्यम् । नामैतत् कुत्राप्यन्यत्रालङ्कारग्रन्थेषु नोपलभ्यते ।
साम्प्रतं ग्रन्थकारयितुर्विषयमवलम्ब्य तेन सहैव ग्रन्थकर्तुरपि वि. षये विचार्यते-केशवमिश्रं ग्रन्थकर्तृत्वे नियोजयन् माणिक्यचन्द्रस्तु तीरभुक्ति (तिरहुत) राज्यमलतवानिति एलिङ (Eggeling) मतम् । नृपालोऽयं काश्मीराधीश्वरो नासीत् । इन्द्रप्रस्थसमीपे यवनानां विजयात्पूर्वमधिवसति स्म । केशवमिश्रेण प्रदर्शिता ग्रन्थकार. यितुवंशपरम्परा 'कोटकांगडा'ऽधीशितुर्माणिक्यचन्द्रस्य वंशपरम्परया सह संवादं भजतीति प्रस्तुतो माणिक्यचन्द्रः 'कोटकांगडा'ऽधी. श्वराऽभिन्न एवेत्यत्र नापेक्ष्यते प्रमाणान्तरप्रदान किमपि । कणिघं (Cunningham) मतानुसारेण माणिक्यचन्द्रस्य राज्यारोहणं १५६३ मिते ईशवीये वर्षे समभूत् । अयं च दशवर्षावधि राज्यशासनमकरोत् । ____ अस्य पिता धर्मचन्द्रः (घपुस्तकानुसारेण सोमचन्द्रः) पितामहश्च
१Kane: Introduction to साहित्यदर्पण P. CXXIX. २. S. K. De: Sanskrit Poetics Vol, 1, P. 261.