________________
प्रस्तावना
वयम्' इति साभिमानं स्वाभिमतं पक्षमुपाक्षिपद् वृत्तिकारः । ततः 'कारणकार्यसहकारिभिर्व्यज्यमानः स्थायी रस' इति केषांचिन्मतमुपन्यस्य साविकभावभेदप्रदर्शनपूर्वकं नवधा कारिकाकृता विभक्तेषु रसेषु सम्भोगविप्रलम्भात्मनः शृङ्गारस्य नायिकाया नायकस्य च भेदाभिर्दिश्य विप्रलम्भे शृङ्गाररूपवं समर्थयता केशवमिश्रेण 'काव्यरत्ने मया विस्तृतमिद'मिति स्वनिर्मितो ग्रन्थ आविष्कृतः। तथैव देवादिभ्योऽन्यत्र कान्तायां रतेः शृङ्गारात्मकत्वं श्रीपादमतेनोक्त्वा देवादिरतिमुदा त्य हास्यादिरसोदाहरणपुरःसरं रसानामविरो. धविरोधावभ्यधायिषाताम। ततो नवधा निर्दिष्टस्य स्थायिनः प्रत्येक रत्यादीनां च लक्षणानि कथयित्वा सर्वेषु भावेषु स्थायिनो मुख्यत्वप्रतिपादनमुखेन विभावानुभावव्यभिचारिणो निर्दिश्य भावशबल ताया उदाहरणं प्रादर्शि । द्वितीये मरीचौ-रसदोषान् सविस्तरं नि. रूप्य तदन्तर्गतस्य अनौचितीनाम्नो दोषस्य सर्वथा हेयत्वे महिमभदृवचःप्रामाण्यं प्रदर्श्य दोषान्तरं चैक निर्दिश्य क्वचिदेषामदोषत्वमपि सूचितम् । तृतीये मरीचौ-तत्तद्रसानुकूलानि छन्दोरीत्यक्षरादीनि संसूच्य वक्ताद्यौचित्येन क्वचिद्वैपरीत्येऽप्यदोषत्वमुदाहरणप्रदर्शनमुखेन समर्थ्य सर्वसाधारणं दो सन्धिगतं वर्णदोषं च प्रतिपादयता ग्रन्थकारेण उपसंहारविधया प्रबन्धोऽयं समाप्तिं नीतः।
अस्मिन् किल प्रबाधे-काव्यलक्षणं बढशेन साहित्यदर्पणोक्तं तल्लक्षणमनुसरति । काव्यकारणानि च निरूपितानि वैशिष्टयं दर्शयन्ति। तिस्रो रीतयो, दोषाश्च अष्टाविंशतिः, अलङ्कारसहस्रेषु सत्स्वपि अत्यावश्यका गुणा नव, 'अपरेऽत्रैवान्तर्भवितुमर्हन्ति' इत्यपरानिषिध्य चतुर्दशैव अर्थालङ्काराः प्राधान्येन तेषूपमाया दश प्रभेदाश्च निरूपिता दृश्यन्ते । उपमोत्प्रेक्षयोस्तावत् सर्वालङ्कारेभ्यः साधितमुत्कृष्टतमत्वं केशवमिश्रेण । स्त्रीपुंसयोः वर्णनौपयिकाः प्रकाराश्च भूयांसः सहीताः सन्ति । कविसम्प्रदायसिद्धास्ते ते वर्णनप्रकारा ग्रन्थान्तरेभ्यो वैलक्षण्यमावहन्तः कवीनामुपकारकाः सविस्तरं प्रतिपादिता उपयोगिताऽतिशयं प्रकाशयन्ति । दुष्करसमस्यापूरणोचितानां प्रकाराणां सहोऽपि सम्यक्समुद्भासते । रसं विभावादिभिर्व्यज्यमानमन्ये मन्यन्ते । केशवमिश्रस्तु 'अङ्गाङ्गिभावापन्नानां सकलविभावानां साक्षात्कारको रस' इत्थं मनुते । एतावानेव आपाततोऽत्र वि