________________
प्रस्तावना
हरन्ती निर्दिश्य समासोक्तिप्रभृतीनां विभावनान्तानामलङ्काराणां लक्षणोदाहरणे निरूप्य परमतानुसारमन्यदेशत्वविभावनाविशेषोतीनामेकतरस्वीकारेण तदितराऽन्यथासिद्धिकथनमुखेन व्यतिरेकाक्षेपयोरपि पूर्वोक्तेभ्योऽलङ्कारेभ्यः पार्थक्यभितरमतेनोक्तम् । . वर्णकरत्ने प्रथमे मरीवौ--योषिर्णनप्रकारमुपदिश्य तदवयवानां तानि तान्युपमानानि स्वाभिमतानि श्रीपादानुसारिकविकल्पलताकारोक्तानि च सह्य गोवर्धनोदीरिताः शरीरतदवयवयोवर्णनीया गुणाः प्रतिपादिताः। द्वितोये मरीचौ-पुरुषस्य तदवयवानां च वर्णनप्रकारानुपदर्य प्रशस्तार्थवाचकानि पदानि च परिगणय्य 'शिष्टप्र. योगानुसारेण सामुद्रिकायुक्तं सर्वमुभयोवर्णनीय'मिति सिद्धान्तो नि. रूपितः । तृतीये मरीचौ-सादृश्यप्रापकान् प्रकारान् दण्डिनोक्तांस्तत्प्रतिपादकान् शब्दांश्च निर्दिश्य कविघटनाया लोकतो वैलक्ष ण्यं प्रदर्शितम् । - कविसम्प्रदायरत्ने प्रथमे मरीचौ-कविसम्प्रदायस्य सर्वतोऽभ्यहितत्वं दिदर्शयिषुस्तस्य त्रैविध्यमभिधाय तत्प्रकारप्रदर्शनगर्भितान् कविसम्प्रदायसिद्धान् नियमान् सप्राञ्चं न्यरूपयद् ग्रन्थकारः। द्वितीये मरीचौ-नृपादीन् वर्णनीयानिर्दिश्य तवर्णनोचितान्प्रकारान् प्रादर्शयत् । तृतीये मरीचौ-चन्द्रादोनां घेतादिरूपैर्वर्णनात्मकं नियमान्तरं प्रत्यपीपदत् । चतुर्थे मरीचौ-एकठ्यादिसंख्याबोधकान् शब्दान् पर्यजीगणत् । - कविसामर्थ्यरत्ने प्रथमे मरीचौ-प्रकारोपदेशगर्भ कवीनां प्रकर्षबीजकथनं प्रतिज्ञाय वित्रकाव्योपकारकाणि चत्वारि गतागतसमत्वादीनि प्रदर्शितानि । द्वितीये मरीवौ-कठिनसमस्यापूरणोचितान् स्वाभिमतान् श्रीपादराजशेखरवृद्धाभिमतांश्च सप्रपञ्चं प्रकारानुपदर्थ्य तार्किकोक्तो वर्णनीयप्रकारविशेषः सङ्ग्रहीतः। - विश्रमरत्ने प्रथमे मरीचौ-काव्यात्मभूतं रसं विना काव्यस्य रसिकजनमनःसन्तोषाऽजनकतामुक्त्वा 'अङ्गाङ्गिभावापन्नसकलविभावादिसाक्षात्कारकत्व'मिति रसलक्षणं निरुच्य रसत्वमपि जातिरिति
११) सर्वालङ्कारसर्वस्वं कविकीर्तिविवधिनी।
उस्प्रेक्षा हरति स्वान्तमचिरोटास्मितादिवत् ॥