________________
प्रस्तावना
लोकप्रसिद्ध्यपेक्षया कविप्रसिद्धबलीयस्त्वमुदाहृत्य प्रागुक्तानां दोषत्वं समार्थयत्।
गुणरत्ने प्रथमे मरीचौगुणानां श्लाध्यत्वं समर्थ्य सामान्यतो गुणस्य द्वैविध्यं च निगद्य पञ्चविधशब्दगुणप्रदर्शनमुखेन तत्रैवेतरे. षामन्तर्भावमुक्तवान् । तृतीये मरीचौ-'पूर्वोदीरिताना दोषाणां स्थानविशेषेष्वदोषत्व'मिति कारिकोक्तं वैशेषिकगुणलक्षणं प्रकाश्य केषां. चिन्मतेन 'तत्र दोषाभावमात्रत्वं न गुणत्वम्', अन्येषां मतेन 'सहृद. यप्रतीतिसाक्षिकं गुणत्वं दोषाभावत्वं वेति सूचयित्वा 'रसप्रतिवन्ध. रहिते स्थले दोषाभावत्वं युक्तमिति श्रीपादमतप्रतिपादनेन पदेषु यथासम्भवमदोषत्वमुदाहृत्य आत्मनः श्रीपादस्य च संमतं सर्वसाधारणमदोषत्वं निरूपितवान् । ___ अलङ्काररत्ने प्रथमे मरीचौ-कारिकयोक्तपूर्वमलङ्काराणां शोभा. स्पदत्वं संसाध्य अलङ्कारसामान्यलक्षणकथनपुरस्कारेण शब्दाल ङ्काराणामष्टविधानामुदाहरणान्युपस्यता वृत्तिकारेण यमकस्य संक्षे. पतः सप्ताशीतिप्रकारत्वमुत्तवा गोवर्धनमतेन तस्य चित्रादनतिरि. तत्वं प्रतिपादितम् । द्वितीये मरीचौ--कारिकोक्तांश्चतुर्दश अर्थालङ्कारान् नामतो निर्दिश्य दशविधामुपमां समभिव्याहारोपमां च श्रीपादाभिमतामुदाहृत्य तत्र सर्वत्र न्यूनाधिक्यसम्भवेऽपि काव्य. महिम्ना साम्यं निरूप्य राजशेखरोक्तसाम्यवाचकशब्दपरिगणनपुर:सरं केशवमिश्रेण काव्यसम्पत्सर्वस्वरूपा अलङ्कारशिरोरत्नभूता उपमा कविकुलस्य मातृरूपत्वेन निर्दिष्टा । इत्थमेव अप्पय्यदीक्षितैरपि चित्रमीमांसायां सर्वालङ्काराणामुपमाविवर्नत्वं प्रतिपादितम् । तृतीये मरीचौ--रूपकस्य लक्षणं पञ्चविधत्वं च उदाहरणैः स्फुटी. कृत्य तत्र द्विविधाया लक्षणाया अन्तर्भावमुक्त्वा तदुदाहरणे प्रदर्शिते। चतुर्थे मरीचौ--उत्प्रेक्षाया लक्षणोदाहरणप्रदर्शनं कृत्वा सर्वालङ्कारसर्वस्वभूतां कवेः कोर्तिवधिनीमुत्प्रेक्षां नवोढास्मितादिवन्मानस
(१) अलङ्कारशिरोरत्नं सर्वस्वं काव्यसम्पदाम् ।
उपमा कविवंशस्य मातैवेति मतिर्मम ॥ (२) उपमैका शैलुषी सम्प्राप्ता चित्रभूमिकाभेदान् ।
रजयति काव्यरङ्गे नृत्यन्ती तद्विदां चेतः॥ ..