SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सप्तमरने प्रथममरीचिः । सप्तमं रत्नम् । इदानीं प्रकारमुपदिशनेव कवीनां प्रकर्षबीजमाह - गतागतसमत्वं च संस्कृतप्राकृतैकताम् । तथा वचनयोः साम्यं धर्मिधर्माभिधायि च ॥ १ ॥ कवयः कुर्वते शक्ताः समस्यापूरणादिकम् ॥ आयं चतुष्टयं तत्र चित्रकाव्योपकारकम् (१) ॥२॥ गतागतेत्यादि यथा - 'मम रुरु मध्यम सहास कारिका वररव वनदानव सरसीरस गजभुजग तरुणीरुत रदसोदर नदभेदन वरभैरव कलपुलक पतदातप' इत्यादि । चकारादसाम्येऽपि स्फुटार्थता यथा - राजा ( २ ) नदी मालिका राजते दीनरक्षी पिनाकिना नन्दमयन सहसानुत ( ३ ) इत्यादि । रेजिरे बभूव - तिष्ठतीत्याख्याते । संस्कृतेत्यादि । तत्र पुंल्लिङ्गे - हाराहारविहारसारसमरा : सम्भोग भोगा ( ४ ) ध्वराः संहारामरवारवारणरणाष्टङ्कारवीरा (५) कराः । लोलोल्लास(६)बिलासवाय सहराऽहङ्कारहीराङ्कुरा नीहारोरगताररागतरला गोविन्दकन्दौद ( ७ ) नाः ॥ स्त्रीलिङ्गे धरणी धारणी गोणी रोहिणी रमणी मणी । कन्दली लहरी रम्भा (८) नारी भेरी वसुन्धरा ॥ (१) आदिचतुष्टयं चित्रकाव्योपकारकम् - इति कपु० पाठः ( २ ) जारा - इति खपु, जरा-इति घपु० पाठः । ( ३ ) सात्वनुत-इति कपु०, सात्वत-इति च खपु० पाठः । ( ४ ) रोगाम्बराः - इति ख, घपु० पाठः । (५) तीराकराः - इति खपुस्तके | ( ६ ) लोलोल्लाघ - इति कपु, लोलोल्लोल - इति च घपु० पाठः । ( ७ ) कन्दोदराः - इति खपु० पाठः । ( ८ ) रामा - इति ख, घपु० पाठः ।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy