________________
७०
नपुंसके—
अलङ्कार शेखरे -
जलफलपलमूलं वारिकलालतूलं
वनपललदुकूलं तूण (१) गम्भीरकूलम् । सलिलकमलचीरं स्वर्ण (२) राजीवनीरं
हलरजतकुटीरं दारुनालं पटीरम् ॥ भण गच्छ देहि संहर कुरु रोचय मारयाऽवगच्छेहि । अवलोकयाऽवचिन्तय खादेति च (३) धातुजं विद्धि । एकस्मिमेवार्थे बहुवचनैकवचनयोः साम्यं यथाक्रव्यादो देवरो वारि फलिनो बर्हिणो नरः । तादृशो भूरुहायाश्च मासफेरव सोमपाः ॥ एवं रथिनमन्थानशब्दाः खुरणसादयः । धर्मिधर्माभिधायि पदं यथा
सुषिरार्द्रप्रतीहार चुल्ल पिल्लादिशत्रवः । स्पेरालसौ मत्सरश्च धर्मिधर्माभिधायकाः ॥ चकाराद्विशेषसामान्यवाचकभावाऽभाववाचकपरिग्रहः ।
तदुक्तम्
शकुन्तधातुमरुतो गरुत्मत् कामदर्शनम् । अक्षं वधूथ गमनं चेटकाद्या ( ४ ) द्विवाचकाः ॥ अपिधानाद्यपूपादिभावाभावप्रदर्शनम् ।
आदिपदात् आरादयुतभिन्नावतंसादि (५) परिग्रहः । इत्यलङ्कारशेखरे कवि सामर्थ्यरत्ने चित्राद्युपकारमरीचिः ।
(१) तुङ्ग - इति क, खपु० पाठः । (२) तुच्छ - इति क, खपुस्तकयोः । ( ३ ) प्रवदेति च इति घपु० पाठः ।
-
(४) स्वच्छबंधू स्वगमनचटकाद्या इति कपु० पाठः । (५) आनादयुत सिद्धावलग्नावतंसादि- इति खपु० पाठः ।