SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । कृतगतत्वेन कविप्रतिभोत्थापिते संदेहे संदेहालंकारः। स च त्रिविधः। शुद्धो निश्चयगर्भो निश्चयान्तश्च । शुद्धो यस्य संशय एव पर्यवसान था 'किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वहरी प्रा विलय नभR___ लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारानिधे । उद्गाढोत्कलिकावतां स्खसमयोपन्यासविस्रस्भिणः --- किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः ॥ ५६५ निश्चयगर्भो यः संशयोपक्रमो निश्चयमध्यः संशयान्तश्च । स यथा 'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः ___ कृशानुः किं साक्षात्प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरा समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ॥' निश्चयान्तो यत्र संशय उपक्रमो निश्चये पर्यवसानम् । यथा'इन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् । ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः ॥' क्वचिदारोप्यमाणानां भिन्नाश्रयत्वेन दृश्यते । यथा'रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥' यथासंभवं योज्यम् । प्रतिभूत्थापित इति न पुनः स्वरसोत्थापितः । स्थाणुर्वा पुरुषो वेत्येवमादिरूप इत्यर्थः । एतदेव भेदत्रयं विवृण्वन्नुदाहरति-शुद्ध इत्यादि । अत्र प्रकृ. तायास्तन्व्याः संदेहप्रतीतिविषयत्वाभावाद्विषयिणां मञ्जर्यादीनामेव संदेहः । विषयविषयि. णोर्यथा-'किं पङ्कजं किमु सुधाकरबिम्बमेतत्कि वा मुखं क्लमहरं मदिरेक्षणायाः । यद्दश्यते मधुकराभकुरङ्गकान्तिनेत्रद्वयानुकृति कार्ण्यममुष्य मध्ये ॥' अत्र क्लमहरत्वादिः समानो धर्मोऽनुगामित्वेनोपात्तः । क्वचिद्वस्तुप्रतिवस्तुभावेनापि भवति । यथा-'किमिदमसितालिकलितं कमलं किं वा मुखं सुनीलकचम् । इति संशेते लोकस्त्वयि सुतनु सरोवतीर्णायाम् ॥' अत्रासितत्वसुनीलत्वयोः शुद्धसामान्यरूपत्वम् । अलिकचानां च बिम्बप्रतिबिम्बभावः । एवं चास्य सादृश्यनिमित्तत्वात्समानधर्मानेकधर्मनिमित्तत्वेन द्विभेदत्वं न व्याकार्यम् । सादृश्यनिमित्तत्वेनैवास्य संग्रहसिद्धेः। विप्रतिपत्त्यादिनिमित्तान्तरवच्चारुत्वाभा १. 'यत्र' ख. २. 'तिरः' क. ३. 'इह' ख. ४. 'भिन्नविषयत्वेन' क.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy