________________
१८७
अलंकारसर्वस्वम् । 'किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिरादर्शनं
केयं निष्करुण प्रवासरुचिता केनासि दूरीकृतः । स्वप्नान्तेष्विति वो वदन्प्रियतमव्यासक्तकण्ठग्रहो
बुद्धा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः ॥'
।
ङ्गत्व एव ध्वनिभेदत्वमिति प्रधानेतरकक्षाद्वयाभावादेतेषां भावस्थित्युदयसंधिशबलताप्रशमात्मतया कथमलंकारत्वं वाच्यम् । तथात्वे ह्यभिधीयमाने ध्वनिभेदत्वमेषां न स्यात् । असदेतत् । इह हि निर्वेदादीनां त्रयी गतिः । तत्र 'व्यक्तः स तैविभावाद्यैः स्थायीभावो रसः स्मृतः' इति नीत्या विभावानुभावस्पर्धयैषां रसव्यञ्जकत्वमेका गतिः । तत्र च रसस्यैव प्राधान्यान्निरतिशयप्रीतिकारित्वेन फलवत्त्वात् 'फलवत्संधिनावफलं तदङ्गम्' इति नीत्या रसव्यजकत्वमात्रेणैव कृतार्थत्वान्नास्त्येषां रसव्यक्तिव्यतिरेकि किंचित्प्रयोजनान्तरम् । 'नायं कञ्चलिकाविमोक्षसमयः स्पृष्टो न काञ्चीगुणः प्रक्रान्ता न मया विपर्ययरतारम्भाय वा प्रार्थना । न त्वत्कर्तकमर्थयामि निबिडं दोःकन्दलीबन्धनं तनिष्कारणमेव बाललवलीवल्लीव किं वेपसे ॥' अत्रालम्बनविभावो लता, वेपनादिरनुभावः, वितर्कश्च व्यभिचारिभावः । एषां चात्र समस्पर्धितया रसव्यञ्जकत्वमात्रमेव प्रयोजनम् । व्यक्तश्च रसः सचेतसां दत्तफल इति नैषां किंचित्फलान्तरम् । अत एव रसाद्यङ्गभूतस्य व्यभिचारिणः स्थित्याद्यात्मध्वनिप्रकारत्वं भवतीति न वाच्यम् । तथात्वे चाभिधीयमाने 'निर्वेदादेः प्राधान्याभावात् ध्वनिव्यपदेश एव न युक्तः । अप्रधानस्य प्रधानत्वाभिधाने विरोधात् । एवं च गुणीभूतव्यङ्गयस्यापि ध्वनिव्यपदेशः केन प्रत्युक्तः । क्वचिदपि 'मुख्ये रसेऽपि तेऽङ्गित्वं प्राप्नुवन्ति कदाचन' इति नीत्या राजानुगतविवाहप्रवृत्तभृत्यवद्विभावानुभावव्यञ्जितानां रसगुणीभावेनैषामेव प्राधान्यम् । यथा-'इतश्चारुप्रेमप्रणयसुकुमारा वरवधूरितः स्वेच्छालभ्यानुपमफलमूला वनमही । इतो मौर्वीनादोन्मुखनिखिलसैन्यो रणविधिः क्व नामायं साहक्तरलहृदयो रज्यतु जनः ॥' अत्र विभावानुभावाभ्यां व्यञ्जितः शृङ्गारादीनां रसानामप्ररूढत्वेन गुणीभावाद्वाक्यतात्पर्यविषयत्वेन विश्रान्तश्चिन्ताख्यो व्यभिचारिभावः प्रधानम् । अत एवात्र भावस्थितेर्ध्वनिभेदत्वम् । एवं चात्र चिन्तायाः शृङ्गारादीन्प्रति तदङ्गत्वाभावान गुणीभावः । अत एव चात्र तेत्परिपोषकत्वात्यागात्तदीयकार्याकरणाद्रसं प्रति गुणीभावात्स्वेनैव च निरतिशयप्रीतिकारित्वेन सचेतसां दत्तफलत्वान्निजप्रयोजनासंपादकत्वविरहाद्राजानुगतविवाहप्रवृत्तभृत्यवन्मुख्यानपि रसाननादृत्य चिन्ताया एव वाक्यतात्पर्यविषयत्वेन प्राधान्यादङ्गित्वम् । अत एव
१. 'तथा तत्वे ह्यभिधीयमाने' ख. २. 'अत्रालम्बनविभाव उघावेपनादिरनुभावः' क. ३. 'प्रधानस्य प्रधानत्वाभिधानविरोधात्' ख. ४. “एवं गुणीभूत' क. ५. 'तत्परिपोषकत्वत्यागात्' ख.