SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १८६ काव्यमाला । ष्टव्यः । एषामुपनिबन्धक्रमेण रसवदादयोऽलंकाराः । रसो विद्यते यत्र निबन्धे व्यापारात्मनि तद्रसवत् । प्रियतरं प्रेयो निबन्धनमेव द्रष्टव्यम् । एवमूर्नो बलं विद्यते यत्र तदपि निबन्धनमेव । अनौचित्यप्रवृत्तत्वादत्र बलयोगः । समाहितं परिहारः । स च प्रकृतत्वादुक्तभेदविषयः प्रशमापरपर्यायः । तत्र यस्मिन्दर्शने वाक्यार्थीभूता रसादयो रसवदाद्यलंकारः, तत्राङ्गभूतरसादिविषये रसवदाद्यलंकारः । द्वितीये उदात्तालंकारः । तन्मते त्वङ्गभूते रसादिविषये रसवदाद्यलंकाराः । अन्यस्य रसादिध्वनिना व्याप्तत्वात्तत्रोदात्तालंकारस्य विषयो नावशिष्यते । तद्विषयस्य रसवदादिना व्याप्तत्वम् । तत्र रसवत उदाहरणम्भावतदाभासतत्प्रशमविषय एवेत्यर्थः । एषामिति । रसभावतदाभासतत्प्रशमानाम् । बलयोग इति । अनुचितेन बलात्कारेणैव प्रवृत्तिः । प्रकृतत्वादिति । तेनात्र वस्त्वन्तरं प्रकृतमिति भावः । ननु च परविश्रान्तिरूपस्य काव्यात्मनोऽलंकार्यस्य रसस्य कथमलंकारत्वं संगच्छत इत्याशङ्कयाह-तत्रेत्यादि । यस्मिन्दर्शन इति । ध्वन्यभाववादिनां मत इत्यर्थः । द्वितीय इति । ऐश्वर्यलक्षणात् । अन्यस्येति । यत्र वाक्यार्थीभूतो रसः । एवं ध्वन्यभाववादिमतं विषयद्वयस्य दृष्टान्तीकृत्य रसरसवदलं. कारयोरनेन विषयविभागः कृतः । अङ्गभूतस्य रसादेश्चालंकारत्वं युक्तम् । तथा च यावतोपमादीनां सर्वालंकाराणां प्रकृतवस्तूपरञ्जकत्वमलंकारत्वे निबन्धनम् । अङ्गभूतेनापि रसेन तत्क्रियत एव । प्रकृतस्य रसादेस्तदुपस्कृतत्वेन भावात् । अतश्चोपमादीनामलंकारत्वे यादृश्येव वार्ता तादृश्येव रसादीनां यद्यपि चोपमादयोऽर्थालंकाराः, तथापि तस्य वाच्यार्थस्य विभावादिरूपतापर्यवसानाद्रसपर्यवसायित्वमेवेति काव्यात्मनो व्यङ्गयस्य रसादेरेव तदलंकार्यत्वम् । किं पुनस्तस्य शब्दमुखेनोपस्कारकाः शब्दालंकाराः, अर्थमुखेन त्वर्थालंकाराः । तत्तदवयवगतैरपि हि कटकादिभिश्चेतन आत्मैव तत्तच्चित्तवृत्तिविशेषौचित्यसूचनात्मना तयालंक्रियते । तथा ह्यचेतनं शवशरीरादिकं कटकाद्युपेतमपि न भाति, अलंकार्यस्याभावात् । अतश्च देहद्वारेण सर्वत्रात्मैवालंकार्यः । एवमस्थापि शब्दार्थशरीरत्वात्तन्मुखेनैवालंकार्यत्वम् । तेन रसभावादितात्पर्यमाश्रित्य विनिवेशनम् । 'अलंकृतीनां सर्वासामलंकारत्वसाधनम्' इति दृशा रसाद्याश्रयेणैवालंकाराणां विनिवेशनं जीवितम् । अतश्चेहापि प्रकृतस्य वाक्यार्थीभूतत्वेन प्रधानस्य रसादेरुपस्कार्यस्याङ्गभावेन रसादेरलंकारत्वं युक्तम् । यदाहुः-'प्रधानतां यत्र रसादयो गता रसो रसादिध्वनिगोचरो भवेत् । भवन्ति ते यत्र रसादिपोषका रसायलंकारदशा हि सा पृथक् ॥' इति । ननु निर्वेदादीनां भावानां गर्भदासवत्कदाचिदपि स्वप्राधान्याभावात्सर्वदा रसाद्य १. “एषामुपनिबन्धे क्रमेण' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy