________________
62
अलंकारमणिहारे
लिङ्गं यथा
भुवनोपकारहेतोस्तव नो भगवन् प्रवृत्तिरेकाऽपि। किन्तु स्वार्था मन्ये निखिलशरीरत्वमेव तद्वदति ॥ २०९६ ॥ ____ अत्र भगवतश्श्रीनिवासस्य 'यस्य पृथिवी शरीरम्' इत्यादिश्रुतिप्रसिद्धसर्वोपकारकसर्ववस्तुशरीरकत्वलिङ्गेन तत्प्रवृत्तेः स्वप्रोजनकतत्परत्वं समर्थितम् ॥
ननु लिङ्गस्य सामर्थ्यात्मकस्य शब्दप्रमाणबहिर्भूततया शब्द. प्रमाणप्रस्तावे कथमुदाहरणमिति चेन्न, स्वतस्तस्य प्रमाणताविरहेण वेदानुमापकतयैव प्रमाणत्वाच्छब्दप्रमाण एवान्तर्भावितत्वात् । एवं लौकिकलिङ्गानामपि लौकिकशब्दोन्नायकतया लौकिकशब्द एवान्तर्भावः । ताहशलिङ्गमप्येवमेवोदाहार्यम् ॥
वाक्यं यथा
अघनिष्कृतिप्रकरणे प्रबलं निश्चित्य तावकं वाक्यम् । जननि वणे शरणं त्वां प्रकरणतो वाक्यमेव हि बलीयः ॥ २०९७ ॥ अघनिष्कृतिप्रकरणे प्रायश्चित्तप्रसक्तौ सत्यां तावकं वाक्यं'प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे । मामेकां देवदेवस्य महिषीं शरणं व्रजेत् ॥ इति लक्ष्मीतन्त्रोक्तं त्वद्वाक्यं प्रबलं निश्चित्य हे जननि श्रीः! त्वां शरणं वृणे। हि यस्मात् प्रकरणत: उभयाकाङ्क्षालक्षणात् वाक्यं समभिव्याहारलक्षणं वाक्यं बलीयः प्रबलं आहुः । तान्त्रिका इति शेषः । तथाच पारमर्ष सूत्रम्-'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये · पारदौर्बल्यमवि