________________
शब्दप्रमाणसरः (११५)
61
तादृशाभयमुद्रावहनाभावात्तथोक्तिः । यत् यस्मात् त्वं अभयं ब्रह्मेति श्रुतोऽसि एतदमृतमेतदभयमेतद्ब्रह्म' इति, 'अभयं वै ब्रह्म' इति च श्रुतिप्रथितोऽसि । अविद्यमानं भयं यस्मादिाते पञ्चमीबहुव्रीहिः । तथाहि-श्रुत्या अभिधानश्रुत्यैव परमे श्रेष्ठ तत्त्वे अर्थयाथात्म्ये निणींते सति लिङ्गं तदनुमापकं सामथर्यरूपं कोनु आद्रियते। श्रुत्यैवार्थनिर्धारणे दुर्बललिङ्गादरणं न क्रियत एवति भावः। किंच 'नारायणः परं ब्रह्म तत्त्वं नारायणः परः' इत्यादिश्रुत्या नारायणस्यैव परतत्वत्वे निर्णीते सति लिङ्गं शिवालङ्गं कोनु नामाद्रियते । श्रुत्यर्थयाथात्म्यवेत्ता नारायणादन्यं रुद्रादिकं परतत्वतया नाद्रियत इत्यर्थोऽपि प्रतीयते । अत्र श्रीनिवासस्य 'अभयम्' इति श्रुत्या अभयमुद्राधारणरूपलिङ्गानावश्यकत्वं समर्थितम्॥
यथावा
श्रुतिराह श्रीपतिरिति मामाभ्यां किमिति शङ्खचके प्राक् । अजहाः किमीहगिरीन्दो श्रौतेsर्थे न खल लिङ्गमाद्रियते ॥ २०९५॥ ___ हे अहिगिरिन्दो! श्रुतिः 'ह्रीश्च ते लक्ष्मीश्च पत्नयो' इत्यादिश्रुतिः मां श्रीपतिरित्याह । आभ्यां शङ्खचक्राभ्यां मम किं साध्य श्रीपतित्वस्य श्रुत्यैव निर्णये शङ्खचक्रधारणरूपलिङ्गेन किं प्रयोजनमिति प्राक् पूर्व शङ्खचक्रे अजहा: अत्याक्षीः किमित्युत्प्रेक्षा। तथाहि श्रुते निरपेक्षरवसिद्धेऽर्थे लिङ्गं नाद्रियते तान्त्रिक्तरिति शेषः । अत्राप्युदाहृतश्रुत्या शङ्खचक्रधारणानावश्यकता समर्थिता । अत्रान्यहेतुकश्शङ्खचक्रत्याग उक्तहेतुकस्संभाव्यते। अत्र कस्यचिद्राशश्शत्रुविजयाय भगवान् श्रीनिवासशङ्खचक्रे व्यतारीदिति पौराणिकी कथाऽनुसंहिता ॥