SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ 35 शब्दप्रमाणसर : (११५ ) हे नाथ! एतत् करणगणं इन्द्रियवर्ग त्वदाराधनौपयिकमिति भावः । मम त्वं अलं पर्याप्तं अदाः दत्तवानसि अहमपि तव अदां अददाम् । अस्मिन् पक्षे अलंकरणमिति समस्तं पदम् । अलंकरणगणं अलङ्कारप्रतिपादकममुं प्रबन्धामित्यर्थः । अत्र स्वाभिमतेऽर्थे 'कृते च प्रतिकर्तव्यमेष धर्मस्सनातनः । ' इति श्रीरामायणस्य प्रमाणत्ववर्णनम् । श्लेषोज्जावितमिदम् । पूर्वे तु रूपकसंकीर्णम् ॥ यथावा यद्यपि सर्वज्ञस्त्वं न भक्तदोषांस्तथाऽपि जानासि । तदविज्ञातेति त्वां नामसहस्रे पठन्ति मुनिवर्याः ः ।। २०५९ ॥ अत्र सर्वज्ञस्यापि श्रीनिवासस्य भक्तदोषादर्शननिर्धारणेऽर्थे 'अविज्ञाता सहस्रांशुः' इति श्रीभारतान्तर्गतसहस्रनामस्तुतिवचनं प्रमाणमुपनिबद्धम् ॥ पुराणरूपशब्दप्रमाणं यथा हानिस्समजनि माप त्वद्ध्यानभृतोऽपि वासुदेव कथम् । प्राह पुराणं हा निस्सा यत् क्षणमपि न चिन्त्यसे त्वमिति ॥ २०६० ॥ हे माप ! माधव हे वासुदेव ! त्वद्ध्यानं बिभर्तीति त्वद्ध्यानभृत् तस्यापि निरन्तरं त्वां चिन्तयतोऽपीति भावः । हानिः इष्टहानिः कथं समजनि अजायत । आश्चर्यमेतदिति भावः । हानिः कुतो न संभवेदित्यत आह-प्राहेति । पुराणं
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy