________________
35
शब्दप्रमाणसर : (११५ )
हे नाथ! एतत् करणगणं इन्द्रियवर्ग त्वदाराधनौपयिकमिति भावः । मम त्वं अलं पर्याप्तं अदाः दत्तवानसि अहमपि तव अदां अददाम् । अस्मिन् पक्षे अलंकरणमिति समस्तं पदम् । अलंकरणगणं अलङ्कारप्रतिपादकममुं प्रबन्धामित्यर्थः । अत्र स्वाभिमतेऽर्थे
'कृते च प्रतिकर्तव्यमेष धर्मस्सनातनः । ' इति श्रीरामायणस्य प्रमाणत्ववर्णनम् । श्लेषोज्जावितमिदम् । पूर्वे तु रूपकसंकीर्णम् ॥
यथावा
यद्यपि सर्वज्ञस्त्वं न भक्तदोषांस्तथाऽपि जानासि । तदविज्ञातेति त्वां नामसहस्रे पठन्ति मुनिवर्याः
ः ।। २०५९ ॥
अत्र सर्वज्ञस्यापि श्रीनिवासस्य भक्तदोषादर्शननिर्धारणेऽर्थे 'अविज्ञाता सहस्रांशुः' इति श्रीभारतान्तर्गतसहस्रनामस्तुतिवचनं प्रमाणमुपनिबद्धम् ॥
पुराणरूपशब्दप्रमाणं यथा
हानिस्समजनि माप त्वद्ध्यानभृतोऽपि वासुदेव कथम् । प्राह पुराणं हा निस्सा यत् क्षणमपि न चिन्त्यसे त्वमिति ॥ २०६० ॥
हे माप ! माधव हे वासुदेव ! त्वद्ध्यानं बिभर्तीति त्वद्ध्यानभृत् तस्यापि निरन्तरं त्वां चिन्तयतोऽपीति भावः । हानिः इष्टहानिः कथं समजनि अजायत । आश्चर्यमेतदिति भावः । हानिः कुतो न संभवेदित्यत आह-प्राहेति । पुराणं