________________
34
अलंकारमणिहारे
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ॥ इत्युक्तरीत्या मूढः मायया अपहृतज्ञानश्च जनः न प्रपद्यतां प्रपन्नो मा भूदित्यर्थः । उक्तार्थे___ 'अचक्षुर्विषयं दुर्ग न प्रपद्येत कर्हिचित् ।' इति स्नातकधर्मोक्तं चक्षुरगोचरं कान्तारं कदाचिदपि न प्रविशेदित्यर्थकं मनुवचनं श्लेषभित्तिकाभेदाध्यवसायेन प्रमाणतामनीयत। पूर्व स्मृतेराभिमतार्थे प्रमाणतयोपन्यासः । इह तु भगवदप्रपन्नोपालम्भपरेणानभिमतार्थे इति विशेषः ॥
इतिहासरूपशब्दप्रमाणं यथा..विषयविषाब्धाविन्द्रियमकरैः कृष्टोऽपि धारयन् प्राणान् । अधुनाऽऽपं त्वां दीपं जीवन् भद्राण पश्यतीति नयात् ॥ २०५७ ।।
हे भगवन्निति प्रकरणाल्लभ्यते। अधुना याहाच्छकादिसुकृतपरिपाकावसरे इदानीं त्वामेव द्वीपं आप प्राप्तवानस्मि । अत्र बहूनि कृच्छ्राणि सोवा प्राणान् धारयितुस्स्वस्थ बहोः कालाद्भगवच्चरणावलम्बनभाग्यलाभरूपेऽर्थे
'विनाशे बहवो दोषा जीवन् भद्राणि पश्यति' इति श्रीरामायणं प्रमाणतयोपात्तम् ॥
यथावा
एतदलंकरणगणं नाथ ममादास्त्वमहमपि तवादाम् । रामायणमाह कृते प्रतिकर्तव्यं सनातनं धर्मम् ॥ २०५८ ॥