________________
शब्दप्रमाणेसरः (११५)
29
हे नारायण! अनेन वक्ष्यमाणार्थस्य नारायणोपनिषद्गतत्वं सूचितम् । यः पुमान् त्वां अद्वितीय इति अप्रतिद्वंद्व इति वेद वेत्ति सः भविष्णुः वर्धिष्णुः उत्तरोत्तरश्रेयश्शाली भवतीत्यर्थः । तं एवं वेत्तारं भविष्णुं पुमांसं त्वान्निभं त्वत्सदृशं आतनुषे । तस्य सायुज्यं ददासीत्यर्थः । पक्षे तं भविष्णुशब्दं त्वन्निभमित्यत्र त्वं निभमिति छेदः ‘वा पदान्तस्य' इति वैकल्पिकोऽनुस्वारस्य परसवर्णः। त्वं निभं भकारशून्यमित्यर्थः। नीत्युपसर्गपूर्वको बहुव्रीहिः । आतनुषे । तत् तस्मात् निगमान्तः नारायणोपनिष. द्रूपः। स पुमान् विष्णुरिति वदति । यथाऽऽम्नायते तत्र'अथ नित्यो नारायणः' इत्मपक्रम्य 'निष्कलङ्को निरञ्जनो निर्विकल्पो निराख्यातश्शुद्धो देव एको नारायणः । न द्वितीयोऽस्ति कश्चित् । य एवं वेद । सं विष्णुरेव भवति' इति । पक्षे भविष्णुशब्दो भकारच्यावने विष्णुरित्येव भवतीत्यर्थः । अत्र स्वोक्तार्थचमत्कारे उपनिषत् प्रमाणतां प्रापिता। अत्र नारायण-वेद-अद्वितीयः-भवतीति शब्दैरुक्तोपनिषत्प्रत्यभिज्ञाप्यते ॥ ___ क्वचिच्छुतेरर्थान्तरपरिकल्पनेन प्रमाणतयोपन्यासे चारुतातिशयः । यथा___ ब्रह्म त्वां गमयति मां यो गुरुरेनं न मानवं मन्ये । तत्पुरुषोऽमानव इत्युपनिषदुक्तिः प्रमाणमिह भगवन् । २०४५ ॥ - अत्र ब्रह्मगमयितृत्वेन हेतुना आचार्यस्यामानवत्वसंभावनरूपस्वाभिमतार्थे ' तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयति' इति श्रुतेः प्रमाणतयोपन्यास इति वैचित्रयविशेषः ॥