________________
शब्दप्रमाणसरः (११५)
27
यथा
तं विद्धि कौस्तुभमणि वेंकटगिरिनाथ हृदयमणिनिवहे । योऽत्र सखे गगनान्तरतारकनिकरस्थहिमकराकारः ॥ २०४० ॥ ___ सुमारमिव सुकुमारं सुरतरुमिव सन्ततं महोदारम् । जलनिधिमिव गम्भीरं विदाम देवं वृषाचलविहारम् ॥ २०४१ ॥ ____ अत्र प्रथमोदाहरणे गगनान्तरतारकनिकरस्थहिमकरसहशाकारताशालिवेंकटगिरिनाथहृदयगतमणिनिवहमध्यस्थित वस्तु कौस्तुभमणिपदवाच्यमित्युपमानमूलभूतातिदेशवाक्योपन्यासेन तद्वाक्यार्थशानादिदं वस्तु कौस्तुभमणिपदवाच्यमित्युपमितिप्रतीतेरयमुपमानालंकारः । द्वितीयोदाहरणे तु सुमशरमिवेत्यादिवाक्यैः कन्दर्पसहशसौन्दर्यशालित्वसुरतरुसहशौदार्यवत्त्वजलनिधिसमगाम्भीर्यवत्त्वानामतिदेशवाक्यार्थभूतसादृश्यात्मकानां वृषाचलविहारदेवशब्दवाच्यं विदामेति तत्पदशक्तिमहलक्षणोपमितिफलस्य प्रतिपादनादतिदेशवाक्यार्थसादृश्यप्रत्यक्षरूपमुपमा फलेन सह दर्शितमिति विशेषः॥
इत्यलंकारमणिहारे उपमानसरश्चतुर्दशोत्तरशततमः
अथ शब्दप्रमाणसरः (११५) स शब्दो यत्तु शब्दस्य प्रमाणत्वेन कीर्तनम् । श्रुतिस्मृतीतिहासादिरूपशब्द इतीर्यते ।।