________________
अनुमानसरः (११३)
.
25
अन्यत्र भास्कर इति शब्दः भातत्वात् भाकारस्य तकारत्वात् भाकारमपनीय तत्रैव तकारविन्यसनात् पदरुच्याः इति छेदः पदेषु सुप्तिङन्तात्मकेषु रुचिः अभिलाषः यस्याः तथोक्तायाः पदपरिवृत्तिवैचित्र्यादिकुतूहलिन्या इति यावत् । तव भवत्याः तस्करः तस्कर इत्येव शब्दो भवति । किंच यत् यस्मात् अयं तस्करशब्दतामापन्नो भास्करशब्दः अपराने उत्तरभागे गुणेन ‘दिवाविभानिशा' इत्यादिसूत्रविहितार्धधातुकटप्रत्ययनिमित्तकेन लघूपधगुणेन संदानितः युक्तः करः कृञ्धातुप्रकृतिका करेति शब्द : यस्य स तथोक्तः। अन्तरेसतामिति समस्तं पदम् । अन्तरे इत्येतदेदन्तमव्ययं मध्ये इत्यर्थकम् । 'अथान्तरेऽन्तरा: अन्तरेण च मध्ये स्युः' इत्यव्ययेष्वमरः । अन्तरे मध्ये सः 'कस्कादिषु च' इति विहितस्सकारः 'तद्हतोः' इति विहितस्सुट्संबन्धिसकारश्च यस्य स तथोक्तः । तस्य भावः अन्तरे. सता तां गमितः प्रापित इत्यर्थः । इदमप्याक्षिप्तमेवानुमानम् ॥
यथावात्वत्कीर्तिसुधाम्भोधेश्शीतकरोऽयं कणः फणिगिरीन्दो। यत एष शीकर इति स्वत एव मनीषिभिर्व्यवह्नियते ॥२०३७ ॥
हे फणिगिरीन्दो ! शीतकरः त्वत्कीर्तिसुधाम्भोधेः कणः । इदं साध्यं । तत्र हेतुः यत इति। यतः यस्मात् एषः शीतकरः स्वत एव शीकर इति मनीषिभिर्व्यवहियते । वस्तुतस्तु अतः अविद्यमानतकारः सुष्टु अतः स्वतः विगळिततकारोऽयं शीतकरशब्दः शीकर इति व्यवह्रियत इत्यर्थः॥ .
ALANKARA IV.