________________
अलंकारमणिहारे
इत्याकारको यो वर्णः तस्य आप्तौ सत्यां निराशेत्येव स्यादित्यर्थोऽपि चमत्कारकः । अत्र भगवत्याः श्रियो वर्णस्य प्राप्तौ निशा निराशैव । तत्सांनिध्यमात्रेण शान्तिमत्तावाप्तेरित्यनुमानाकारः प्रतीयते ॥
24
यथावा
भगवति तव पदरुच्या भातत्वाद्भास्करोऽपि तस्कर एव । यदयं गुणसंदानितकरोऽपराङ्गेऽन्तरेऽसतां गमितश्च ॥। २०३६ ॥
हे भगवति ! तव पदरुच्या चरणलक्ष्म्या भातत्वात् भास्क रोsपि तस्कर एव चोर एव । अन्यथा अस्य त्वत्पदलक्ष्मीभातत्वायोगादिति भावः । साध्ये तस्करत्वे हेत्वन्तरं चाह - यदिति । यत् यस्मात् अयं भास्करः अपराने पृष्ठभागे गुणेन रज्ज्वा संदानिताः बद्धाः कराः हस्ताः यस्य स तथोक्तः । दृश्यते हि परस्वस्तेयकृतां पश्चादाकृष्टभुजतया रज्जुभिः पाणिबन्धनम् । असतां असाधूनामेवंविधानां तस्कराणामेवेति भावः । अन्तरे मध्ये गमितश्च । कर्मण आधारत्वविवक्षया सप्तमा । यद्वा सतामित्येव छेदः । विदुषामित्यर्थः । अन्तरे बहिः प्रदेशे गमितः सद्भिर्बहिष्कृत इत्यर्थः ॥
अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादयै ।
छिद्रात्मीयविनाब हिरवसरमध्येऽन्तरात्मनि च ॥
इत्यमरः । ' अन्तरं बहिर्योगोपसंव्यानयोः' इति वहिर्योगरूपेऽर्थे सर्वनामसंज्ञायाः पूर्वादिभ्यो नवभ्यो वा' इति विकल्पितत्वानेह ङेः स्मिन्नादेशः ॥