________________
22
अलङ्कारमणिहारे
'विष्णुपत्नी ' इति श्रियोऽपि प्राधान्यश्रवणात् । तत् तस्मात् एनयोः श्रीश्रीशयोरुभयोरपि परतन्त्रत्वं अन्योन्यं पराधीनत्वं तुल्यम् । " त्वयि स्त्रीत्वैकान्तान्म्रदिम पतिपारार्थ्यकरुणाक्षमादीन्वा भोक्तुं भवति युवयोरात्मनि भिदा । यस्या वीक्ष्य मुख तदिङ्गितपराधीनो विधत्तेऽखिलं । यद्धभङ्गाः प्रमाणं स्थिरचर - रचनातारतम्ये मुरारेः" इत्यायुक्तरिति भावः ॥
अहं तया समाक्रान्तो ह्यहमर्थः प्रसिध्यति । अहमर्थसमुत्था च साऽहन्ता परिकीर्तिता ॥ अन्योन्येनाविनाभावादन्योन्येन समन्वयात् । तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः ॥ इति लक्ष्मीतन्त्राद्युक्तमहानुकूलम् ॥
पक्षे - श्रुतिः पुमांसं पुल्लिङ्गं सुमजानिं सुमज्जानिशब्द आह । अत्र बहुब्रीहिसमासं प्राप्ते सुमज्जानिशब्दे उपसर्जनीभूता विशेषणतामापन्ना सुमती सुमतीति शब्दः पुंवत् प्रथते । 'स्त्रियाः पुंवद्भाषितपुंस्कात्' इत्यादिना विहितं पुंवद्भावं प्राप्ता प्रकाशते । तत् तस्मात् एनयोः सुमज्जानिशब्दयोः परतन्त्रत्वं अन्यपदार्थप्रधानत्वं तुल्यं 'अन्यपदार्थप्रधानो बहुव्रीहिः' इत्युक्तरिति भावः । ' तन्त्रं प्रधाने सिद्धान्ते' इत्यमरः । अत्र श्रीश्रीशयोरन्योन्यपारतन्त्र्यं साध्यम् । इमौ श्रीश्रीशौ अन्योन्यपारतन्त्रयवन्ती समप्रधानैश्वर्यव्याप्तयादिमत्त्वादिति प्रयोगः । अत्रापि वाचकपदानुपादानात्प्रतीयमानमनुमानम् ॥
यथावा
तावकवर्णप्रेप्सुः पुरतो नीतैव शान्तिमत्तुं यदगात् । श्रीरुत्तमवरवर्णिनि निशा निराशा तद्न्तरावर्णाप्तौ ॥। २०३५ ॥