SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 316 अलङ्कारमणिहारे गूढपादचित्रम् अन्यपादगता वर्णा गूढाः पादान्तरेषु चेत् । चित्रं तत् गूढपादाख्यं चतुर्थाद्यादिगूहनात् ॥ क्रियावञ्चनचित्रम् क्रियादिकं विद्यमानमपि सन्दर्भकौशलात् । स्पष्टं न दृश्यते चेत्तत्क्रियादेर्वञ्चनं विदुः ।। सप्तविभक्तिवञ्चनचित्रम् यत्रैकस्यैव शब्दश्य गुप्तास्सप्त विभक्तयः । तत्र सप्तविभक्तीनां वञ्चनं चित्रमुच्यते ॥ स्वरस्थानव्यञ्जनादिनियमचित्रम्. स्वरस्थानव्यञ्जनानां नियमो दुष्करो हि यः । प्रोक्तश्चतुःप्रभृत्येष दर्श्यते सुकरः परः ॥ अपुनरुक्त व्यञ्जनचित्रम् व्यञ्जनानां कखादीनां यत्रावृत्तिर्न दृश्यते । चित्रमेतद्विजानीयात्तदना वृत्तवर्णकम् ॥ पद्मादिचित्राणि पद्माद्याकारमापन्ना वर्णाश्चित्रमुदाहृतम् ॥ षोडशदलपद्मम् एकं यदि भवेत्सर्वमेकान्तरितमक्षरम् । तत्पद्मं षोडशदलं कणिकाष्टिवर्णकम् ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy