SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ग्रन्थोपसंहारः 289. णशक्तिः । व्याधनैतदृषाद्रीश्वरसुगुणमणीहार्यलंकारशास्त्रं श्रीकृष्णब्रह्मतन्त्रादिमपदपरकालाभि धानोयतीन्द्रः ॥ २४२३ ॥ पञ्चसहस्रेष्वेकाधिकेषु (५००१) यातेषु कलि. युगेऽब्देषु। अब्दे विकारिनामनि पूर्णोऽलंकारमणिहारः ॥ २४२४ ॥ अधिकण्ठं सोत्कण्ठं विधृतो यैरेष विश्रुतौजुल्यः । प्रथयति लक्ष्मीमेषां प्रायोऽलंकारमणिहारः ॥ २४२५ ॥ रसवत्प्रेयस्सुन्दरमूर्जस्विसमाहितप्रियकरणम्। जयतु सनातनमिथुनं सालंकरणं मदीयकवनं च ॥ ___ रसवत् शृङ्गारादिरसशालि। प्रेयः अन्योन्यप्रियतमं सुन्दरं । पक्षे रसवत्प्रेयोभ्यां तन्नामालंकाराभ्यां सुन्दरम् । ऊर्जास्व बलवत् । समाहितानां समाहितमनस्कानां योगिनां प्रियंकरणम् । पक्षे ऊर्जस्विसमाहिताभ्यां तन्नामालंकाराभ्यां प्रियंकरणं । सनातनमिथुनं लक्ष्मीनारायणात्मकं द्वन्द्वं मदीयकवनं च जयतु ॥ भवतु गुणोऽन्यो मा वा भवदैकान्त्यं गुणो महानस्याः । पत्या सतीव तदियं प्रीत्याऽऽदत्या त्वयाऽच्युत कृतिर्मे ॥ २४२७ ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy