________________
268
यथा
अलङ्कारमणिहारे
तारागौराकारा श्री रायो राति राद्धरास्स्मेरा । सा राजाराध्याऽऽरात्स्फाराऽहीराधराकराधारा ॥
"
तारा तारका सेव गौराकृतिगौरवर्णा । राद्धः सिद्धः राः विभवो यस्यास्सा। स्मेरा स्मयमानमुखीत्यर्थः। राजभिराराध्या । स्फारः विशालः अहीराधरश्शेषभूभृत् स एवाकरः श्रेष्ठः आविर्भावस्थानभूतो वा आधारः अधिकरणं यस्यास्सा । 'इरा भूवाक्सुराप्सु स्यात्' इत्यमरः । ' आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते' इति मेदिनी । सा प्रसिद्धा श्रीः लक्ष्मीः आरात् 'प्रमिति यावत् । रायः धनानि राति ददाति रा दाने' । अयमेव द्विचतुष्कबन्धो गोमूत्रिका च भवति । तल्लक्षणं तुबहिरन्तर्मण्डलस्थं तावत्कोष्ठविहारि यत् । कोणाष्टकयुतं तच्च द्विचतुष्कं विदुर्बुधाः ॥ तत्रायुग्माक्षरैः श्लिष्टा यदि युग्माक्षरैस्तु वा । गोमूत्रिकेति विख्यातिमिदमेव भजेत्तदा ||
इति । एतदुक्तं भवति - दिङ्मुखकोणकं विदिङ्मुख कोणकं च द्वे चतुररचक्रे व्यतिकृते विलिख्य तस्य बहिरन्तश्च मण्डल रेखायुगं विलिख्य तत्प्रत्येकमष्टकोष्ठघटितं विधाय बहिर्मण्डले पूर्वार्धस्याश्लिष्टाक्षराणि अन्तर्मण्डले उत्तरार्धस्याश्लिष्टाक्षराणि विलिख्यार्धद्वयस्य श्लिष्टमक्षराष्टकं मण्डलद्वयमध्याष्टकोणेषु विलिखेत् । एवंच द्विचतुष्कोणविशिष्टत्वाद्दिचतुष्कसंज्ञाऽस्य । इयं