________________
246
. अलकारमणिहारे
अत्र अकार इकार उकार इति त्रय एवैते स्वरा प्रथिताः ॥
द्विस्वरनियमो.यथा
वेदेवेदे वेये ध्येयेऽमेये प्रियेऽक्रियेऽक्षेये । गेयेऽजेये देवे देवेशेड्येऽक्षि मे रेमे ॥२३३२॥ __ वेदेवेदे प्रतिवेदं वेधे शेये। ध्येये ध्यातव्ये । अमेये ‘यतो वाचो निवर्तन्ते' इत्यायुक्तरीत्या वागाद्यपरिच्छेद्ये परिच्छेदत्रितयागोचरे वा । प्रिये निरतिशयप्रीतिविषये अक्रिये 'निष्क्रिय निष्कलम्' इत्यायुक्तरीत्या अकर्मवश्ये । क्षेतुं योग्यः क्षेयः स न भवतीत्यक्षेयः तस्मिन् इदं 'क्षय्यजय्यौ' इत्यस्य प्रत्युदाहरणम् । उपलक्षणमेतत्सर्वभावविकाराणां राहित्यस्य । गेये गातुं योग्ये । जेतुं योग्यो जेयः स न भवतीत्यजेयः तस्मिन् । इदमप्युदाहृतसूत्रप्रत्युदाहरणमेव । देवेशैः ब्रह्मादिभिः ईड्ये स्तुत्ये । देवे भगवति श्रीनिवासे मे मा अक्षि लोचनं रेमे अरमत तन्निध्यानकतानमभवदिति भावः । अत्र रेमे इति लिट्प्रयोगस्स्वस्य प्रमोदपारवश्यप्रयुक्तपारोक्ष्यं सूचयति । अत्र इकार एकार इत्येतयोईयोरेव स्वरयो. यन्त्रणम् ॥ ___ एकस्वरनियमचित्रं यथा
त्वचरणशरणवरणक्षतसकलमलस्य कमलनयन मम। भवदवपथसंचरणश्रममपनय वरद परदरक्षपण ॥२३३३॥ . ___ परेभ्यः कामादिवैरिभ्य: यः दर: भयं तस्य क्षपणः ध्वंसक : तस्य संबुद्धिः। अत्र ह्रस्वाकारस्यैकस्यैव स्वरस्य निबन्धः ॥