________________
244
अलङ्कारमाणहारे
यथासंख्येनार्थालंकारेण सकीर्ण चेति विशेषः। अमानि गूढपादादीनि चित्राणि प्रहेळिकाभेदतया व्यवहियन्ते । तथाचोक्तं विदग्धमुखमण्डने
व्यक्तीकृत्य कमप्यर्थ स्वरूपार्थस्य गोपनात् । यत्र बाह्यान्तरावर्थो कथ्येते ताः प्रहेलिकाः ॥ इति ॥
अथ स्वरस्थानव्यञ्जनादिनियमाचित्रम् स्वरस्थानव्यञ्जनानां नियमो दुष्करो हि यः। प्रोक्तश्चतुःप्रभृत्येष दयते सुकरः परः ॥
दुष्करचित्रेषु मध्ये स्वरस्थानव्यञ्जनानां स्वराः अकारादयः अचः स्थानानि अकुहविसर्जनीयानां कण्ठः' इत्याधुक्तानि कण्ठादिस्थानानि । व्यञ्जनानि हल्वर्णाः तेषां नियमः प्राक्तनों दुष्करतया प्रोक्तः एषः चतुःप्रभृति दय॑ते । चतुःप्रभृतीत्यनेन चतुस्त्रिद्वयेकरूपतया चत्वारो भेदाः प्रदर्श्यन्त इत्युक्तं भवति । परः अन्यस्तु पञ्चादिः सुकरः अनतिप्रयाससाध्यत्वात् । अतस्तदुदाहरणं यथायथमूह्यम् ॥
तत्र प्रथम चतुस्स्वरनियमाचत्रमुदाहियते । यथा
कामो मोहो लोभोऽप्यतिमात्रं गळति तव पदध्यानात् । भोगो वा योगो वा मोक्षो वाऽब्जाक्ष तव कटाक्षात्स्यात् ॥२३२८॥
अत्र अकार आकार इकार ओकारश्चेति चत्वार एव स्वरा निबद्धाः॥