________________
शन्दालङ्कारसरः (१२२)
241
काशात् श्रियः संपदः आधत्ते स्वस्मिन् न्यस्यति मार्जयतीति वा । तास्तु उक्तास्संपदः पुनः याः लक्ष्म्यास्संबन्धिन्यः । यद्वा तुशन्दोऽ वधारणे या इत्यत्रान्वेतव्यः । यास्तु लक्ष्म्या एव संबन्धिन्यः न हि सर्वेश्वरी महोदारसार्वभौमी सा अन्यदीयां श्रियं भिक्षित्वा स्वाधितजनतायै प्रयच्छतीति भावः। यां च तस्यामेव लक्ष्म्यां मन: मम हृदयं भवति सततं तामेव ध्यायतीति भावः । नुशब्दो निश्चये। यामित्यत्र 'रानद्याः' इति डेरामादेशः । अन्यत्सर्वं पूर्ववत् ॥
यथावा
स हरिर्माऽवति मां श्रय मया विना किं नु वस्तु मायैतदिदम् । मायाजातं मायादासो ननु भक्तिमांस्तरेर्मायां त्वम् ॥२३२६॥
इदं संसारोत्तरणमभिलष्य तदुपायाद्यज्ञानेन कौन्तेयवत् विषीदन्तं कंचित्साधु प्रति कस्यचित्परमकारुणिकस्याचार्यस्य भगवतुल्यस्य वचनम् । तथाहि नन्विाते सुकुमारामन्त्रणे । ननु हे साधो ! सः सर्वजगत्कारणत्वादिना प्रसिद्धः । हरि: भगवान् मा मां अवति रक्षतीति स्वनिदर्शनप्रदर्शनेन शिष्यस्य प्रत्यायनम् । यथा मां रक्षति तथा त्वामपीति भावः । 'तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत्' इति श्रूयमाणं तत्प्राप्तयुपायज्ञानापयिकं गुरूपस. दनमाह-श्रय मामिति । मां तव भगवत्प्राप्त्युपायादिकमुपदिदिक्षन्तमिति भावः । श्रय उपसीद । गुरूपसदनविरहे ज्ञानाद्यसिद्धिमाह-मयेति । मया विना किंनु गुरुं विना न किमपि सिध्यतीति भावः । 'आचार्यवान्पुरुषो वेद' इति भूयते। अतो मामाचार्य वृणीष्वेति भावः । तत्त्वमुपदिशति-वस्त्विस्यादिना ।