________________
240
अलङ्कारमणिहारे
एवेति भावः । 'यस्या वक्ष्यि मुखं तदिङ्गितपराधीनो विधत्तेऽखिलम्' इत्यायुक्तयोऽत्रानुसंधेयाः । तां लक्ष्मीमेव विशिनष्टि–या लक्ष्मी: ईष्टे जगत्सर्गादिकं कर्तुं प्रभवतीत्यर्थः । या लक्ष्मीः समर्पितस्वायै न्यस्तात्मरक्षाभरायै 'न बहुव्रीहौ ' इति बहुव्रीहौ सर्वनामसंज्ञानि - षेधान्न तत्प्रयुक्तकार्यम् । जनतायै स्तुताः सकललोक श्लाघिताः श्रियः संपदः आधत्ते विनतजनतामानन्दयितुमभीप्सितां लोकोत्तरां समृद्धिं तस्यामादधातीति भावः । यां लक्ष्मीं मनः ममेति शेषः । अनुभवति च ध्यायति च तया मया जगती ईदृशी भातीति योजना ॥
ईदृशार्थोपस्थापकेनानेन संदर्भेण वक्ष्यमाणरीत्या विभक्तिसप्तकवञ्चनं क्रियते । अत्र हि ईशब्दस्य सप्तापि विभक्तयो वञ्चिताः तथाहि - भाति ई दृशि ई अयेयं जगती ईष्टे या समर्पितस्वा यै जनता याः आधत्ते श्रियः तु ताः याः मनः नु भवति च याम् इति छेदः । अ: अकारवाच्यो भगवान् 'अकारो विष्णुवाचकः । अकारोणोच्यते विष्णुः । अ इति भगवतो नारायणस्य प्रथमाभिधानम्' इत्याद्युक्तेः । अस्य स्त्री ई इति पुंयोगलक्षणङीष 'यस्येति च' इत्यकारलोपे ई इति प्रत्ययमात्र परिशेषः । भगवद्वल्लभा श्रीरिति तदर्थः । दृशि चक्षुषि भाति । मम दृशो गोचरतया प्रकाशते । ई अकारवाच्यभगवद्वल्लभां श्रियम् । एवमग्रेऽपि । अयेयं शरणं व्रजेयं । ' इटकिट' इत्यत्र प्रश्लिष्टस्य इधातोर्लिङ् । तामेव विशिनष्टि – या श्रिया, ईशब्दाट्टाष्प्रत्यये यणादेशः । जगती लोकः ईष्टे ऐश्वर्यशालिनी जगती भूर्देवीति वा ईष्टे भूदेव्या ऐश्वर्यमपि लक्ष्म्यधीनमेवेति भावः । यै तस्यै श्रियै ईशब्दात् ङाय आपनद्याः' इत्याडागमे 'आटश्व' इति वृद्धौ यणादेशः । एवमग्रेsपि । समर्पितस्वा उक्तोऽर्थः । जनता याः तस्या एव श्रियंस्स
<