________________
234
अलङ्कारमणिहारे
हि शानिनोऽत्यर्थमहम्' इति हि तेन गीयते। भवे संसारे एव दवे वनानले कान्तारे वा व्यस्तरूपकं परिलुठतः ममेति शेषः। पापानि भस्य निराकुरु। अस्यतेवादिकालोपमध्यमैकवचनम् । कुतो मामेव निर्वनासीत्यत आह-प्रभवितेत्यादि । भवतः त्वत्तोऽपि इतर: अन्यः प्रभविता पापहरणकर्मणि प्रभुः समर्थ इत्यर्थः । ममेति शेषः। चेतस्तः चित्तं द्वितीयायास्सार्वविभक्तिकस्तसिः । न वाति न गच्छति । वातेर्गत्यर्थकादादादिकाल्लुट् । त्वत्तोऽन्यः पापनिर्वापणधुरीणः मश्चित्तगोचरतां न यातीत्यर्थः । ‘हरिहरति पापानि दुष्टचित्रपि स्मृतः' इत्यादिवचनादिति भावः । अतस्त्वमेव मे पापानि निराकुर्वित्यर्थः। अप्रान्यार्थकपदानुपूर्त्या तिङन्तानां पदानामाभासनात्तिङन्तवदाभासनामेदं चित्रमस्मदुपसम्॥
भवत आप हर जय आवह पापानि भवेत् अवेः स्य परिलठतः प्रेमः दधे प्रभविता भवतः अव अतीतरः अन चेत स्तः ॥ इति छेदे एकोनविंशतिस्तिन्तपदान्यामासन्ते इति सावधानं विभावनीयम् ॥
अथ गूढपादचित्रम् अन्यपादगता वर्णा गूढाः पादान्तरेषु चेत् । चित्रं तद्ढपादाख्यं चतुर्धाऽऽद्यादिगृहनात् ॥
अन्यपादस्थितानां वर्णानां पादान्तरेषु गृहने गूढपादं नाम चित्रम्। तच्च प्रथमादीनां चतुर्णी पादानामैकैकश्येन गृहनाञ्चतुर्धा भवति गूढप्रथमं गूढद्वितीयमित्यादिप्रकारेण ॥