________________
शब्दालङ्कारसरः (१२२)
211
यं जन्तुं सलोकस्य भावः सालोक्यं न सालोक्यं असालोक्यं आलोको दर्शनं कटाक्षाविषयतामित्यर्थः नयसे स जन्तुः यमसालोक्यं कृतान्तसलोकतां भजेत । यं परमपदं दिव्यं स्थानं गमयसि सः संसरणविपदः संसारापदः पदं स्थानं न पदं अपद अविषय इति यावत् स्यात् संमृतिक्लेशान्पुनर्नानुभवेदित्यर्थः॥
यथावा
त्वं ननु बहुलाघवतो बहुलाघवतोऽपि बत नताञ् जननि। शौरे रक्षसि दयिता रक्षसि दयिताऽसि किमथवाऽऽश्चर्यम् ॥ २२८३ ॥ ____ ननु जननि बहुलाघवतः अतिलाघवेन सार्वधिभक्तिकस्तसिः । अतिमात्रचित्तचापलनेति भाव । बहुलं अधिकं अघं पापमषामस्तीति बहुलाघवतोऽपि नतान् शरणागतान् शौरेर्दयिता त्वं रक्षा सि। बत अघवतामपि रक्षणमाश्चर्यावहमिति भावः । स्वयमेव समाधत्ते- अथवेति । रक्षसि काकासुर एव वा रावण एव व. दयिता दयमाना असि दयते: कर्तरि क्तः दयाऽस्यास्संजाता दयितेति वा तारकादित्वादितच् । इदं च पाद्मरामायणयोः स्पष्टम् । अतः अघवतामपि विनतानां रक्षण किमाश्चर्यमिति भावः। पूर्ववदेवेदं यमकं, षण्णामक्षराणामावृत्तिः परं विशेषः ॥
यथावा
दिव्यास्सुतरामहतीस्सुतरा महतीस्सदाऽखिलाशक्तीः । भृशमवितथा दधानं तथाऽऽदधानं श्रियं जयतु दैवम् ॥ २२८४ ॥