________________
194
अलङ्कारमणिहारे
प्रत्येकं पश्चिमयोरावृत्त्या पादयोर्द्वितीयेनृ । यमके संजायेते गर्भस्संदृष्टकं चेति ॥ इति ॥
पश्चिमयोः तृतीयतुरीयपादयोः द्वितीयेनावृत्तौ गर्भसंदष्टकनामनी यमके भवत इति तदर्थः । प्रथमतृतीयपादाभ्यां द्वितीयतुरीयपादयोरावृत्तिरिहार्यावृत्तेषु न घटत इति नोदाहा प्रतिशाभङ्गभयात् ॥
अथ पादभागावृत्तियमकभेदा दिव्यात्रमुदाह्रियन्ते - वनमालीयत नीपावनमाली योगिनां च यत्र गिरौ । वनमाली य इहास्तेऽवनमालीढाब्धिजाधरं तमये ।। २२५७ ॥
यत्र गिरौ शेषाचले नीपावनं गीपानां कदम्बानां बन्धूकानां नीलाशोकानां वा कदम्बबन्धूक नि लाशोकानां सर्वेषां वा तरुविशेषाणां अवनं रक्षकं 'पुंवाक्येष्वनेकार्थत्वमदोषाय' इत्यसकृदवोचाम । 'नीपः कदम्बे बन्धूके नीलाशोकद्रुमेऽपि च' इति विश्वः । वनं विपिनं आलीयत आश्लिक्षत् स्थितमित्यर्थः । योगिनां मुनीनां आली पाङ्कश्च आलोयतेति योजना । इह अस्मि निगरौ वनमाली -
आपादलम्बिनीं मालां वनमालां विदुर्बुधाः । पञ्चवर्णा तु या माला वैजयन्ती गदाभृतः ॥ इत्याद्युक्तलचणबैजयन्त्याख्यमालालंकृतः यः परमपुरुष आस्ते । अवनं निरुपाधिकसर्वरक्षकं आलाढाब्धिजाधरं आस्वादितरमाधरं तं श्रीनिवास अये शरणं प्रपद्ये । तं अवनं अये इति वा योजना । रक्षकत्वेन वृणोमीत्यर्थः । इह प्रथमपादभागस्य वनमालीति चतु