________________
शब्दालङ्कारसर: (१२२)
193
m निपुणः। स भवति वसुधाधीशश्श्रीशेवधिरहितवर्धनेऽनिपुणः ॥ २२५६ ॥ ___ श्रीशे अवधिरहितवर्धने निपुण. श्रीशेवाधिः अहितवर्धनेऽनिपुणः इति पदच्छेदः । यः पुमान् अवधिरहितं अनन्तं वर्धनं वृद्धिः यस्य तथोक्ते स्वरूपेण गुणैश्च निरतिशयबृहति परस्मिन् ब्रह्मणीति यावत् । यद्वा अनवच्छिन्नाभिवृद्धौ त्रिविक्रमावतारे तथा प्रद्धत्वादिति भावः । अवधिरहितं यथास्यात्तथा वर्धने वर्धिष्णाविति वा । 'वर्धनं वृद्धिवर्धिष्णुच्छेदे' इति मेदिनी। 'स्याद्वर्द्धिष्णुस्तु वर्धनः' इत्यमरश्च । फणिशैलनिवेशे श्रीशे श्रीनिवासे निपुणः मातरि निपुण इत्यादाविव तत्पूजनकतान इत्यर्थः । 'साधुनिपुणाभ्यामर्चायां सप्तम्यप्रते:' इत्यचीयां गम्यमानायां निपुणशब्दयोगे सप्तमी। सः पुमान् श्रियः संपदः शेवधिः निधिः 'निधिर्ना शेवधिः' इत्यमरः । अहितानां वैरिणां वर्धने छेदने विषये निपुणः कुशलः वसुधाधीशः राजा भवति । अत्र 'क्रियते यद्भुवनावनम्' इत्यादिपद्यचतुष्टयेऽपि द्वितीयपादस्य तुरोयपादे आत्तिः । अत्र प्रथमस्य पादस्य तृतीये पादे आवृत्तौ संदंशो नाम यमकम् । द्वितीयस्य चतुर्थे आवृत्ती संदष्टकं नाम यमकमिति रुद्रटः । तथाच तदीयं लक्षणं
पर्यायेणान्येषामावृत्तानां सहादिपादेन । मुखसंदंशातयः क्रमेण यमकानि जायन्ते ।
आदिपादेन द्वितीयपादावृत्तौ मुखं नाम यमकम् । तेन तृतीयपादावृत्तौ संदंशोनाम यमकम् । तेन तुरीयपादावृत्तावावृतिर्नाम यमकमिति तदर्थः ।