________________
190
अलङ्कारमणिहारे
नाशं इतः अभवत् अमुना इति प्रथमपादे । न अशमितः भवदमुनाः इति तृतीयपादे च छेदः । हे हरे! इदमाश्रितदुरितापहारसामर्थयाभिप्रायगर्भम् । अमुना भवता आत्महविस्समर्पणोद्देश्यभूतेन त्वया, हेतो तृतीया । मम अखिलदुरितौघानां सर्वपूर्वाघव्यूहानां, इदमुपलक्षणं प्रामादिकोत्तराघानामपि । नाशं विनाशं इदमश्लेषस्याप्युपलक्षणम् । इतः प्राप्त: इणः कर्तरि क्तः अभवत् । उत्तराघाश्लेषस्य सिद्धवत्काराभिसंधिना भूतनिर्देशः। भवस्संसार एव दमुना: अग्निः सप्ताचिर्दमुनाः' इत्यमरः । भवतेत्येतदत्राप्यनुषज्यते । अशमितः न भविता अनिर्वापितो न भविष्यात । भूधातोर्भविष्यति लुट् । फणिशैलनीलजलदेति विशेषणं भवाग्निनिर्वाणधुरीणताभिप्रायकम् । भवता मम पूर्वोत्तरायविनाशाश्लेषयोनिवर्तितयोः पुनस्संसारतापः कदाऽपि न भविष्यत्येवेति भावः ॥
यथावा- .
भविता सत्कृत्यादतिरच्युत न त्वत्पदाश्रितानां यः। भवितासत्कृत्त्याइतिरेव स एषोऽत्र को न संशेताम् ॥ २२५२ ॥ __हे अच्युत! यः पुमान् त्वत्पदाश्रितानां भागवतानां सत्कृती सत्कारे बहुमानने आदतिः आदरणं यस्य स तथोक्तो न भविता स एष जनः असत्कृत्यादतिरेव असत् अप्रशस्तं यत्कृत्यं तस्मिन् आइतिरस्य तथोक्त एव भविता। यद्वा भवितासत्कृत्याहतिरिति तृतीयचरणे समस्तं पदम् । भवितया संसारितया सतां ब्रह्मविदां कृत्ये आचारे आइतिः यस्य स न भवतीत्यसत्कृत्यादीतरव। अथवा असत्यां अप्रशस्तायां कृत्यायां देवतायां