________________
शब्दालङ्कारसरः (१२२)
189
एकैकपादे नियता नियतक्रमशालिनः । यम्यन्ते चेदादिमध्यान्त्यभागास्तद्भिदाश्शतम्॥
यदा त्वेकैकस्मिन्नेव पादे आदिमध्यान्त्यभागानां नियतकमत्वेन अनियतकमत्वेन च यमनं तदा शतं अनेके भेदास्संभवन्ति । एते यमकप्रभेदाः काव्यलक्ष्मीकण्ठगडुभूततया न प्रपश्चनार्हा इति दिङ्मात्रमेवोदाह्रियते ॥
पुरुषस्समाहितमना यस्सेवेताहिशैलमौलिमणिम् । पुरुषस्स माहितमनास्तस्मै किं किं पदं न विदधीत ॥ २२५० ॥
यः पुरुषः मनुजः समाहितमनाः प्रणिहिनचित्तस्सन् अहिशैलमौळिमणिं सेवेत तस्मै पुरुषाय स: ‘सकलफलप्रदो हि विष्णुः' इति प्रसिद्धः माहितमनाः मायै श्रियै हितं प्रियं करणं मनो यस्य सः । अनेन पुरुषकारसांनिध्यं तत्प्रीत्याचरणैकतानत्वं चोतम् । पुरुषः भगवान् किं किं फल न विदधीत 'किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने' इत्युक्तेरिति भावः ॥
रत्नपर्वतमारुह्य यथा रत्नं नरो मुने ।
सत्वानुरूपमादत्ते तथा कृष्णान्मनोरथान् ॥ इत्यादिकमप्यत्रानुसंधेयम् ॥
यथावानाशमितोऽभवदमुना भवता मम तावदखिलदुरितौघः । नाशमितो भवदमुना भविता फणिशैलनीलजलद हरे ॥ २२५१ ॥