________________
174
अलंकारमणिहारे
द्वितीये पद्ये महामहिम्नां मही भूमिः आधारभूतेत्यर्थः । काऽपि देवतेति योजना । तृतीये मदरभसो मदवेगः तस्य निर्जये रभसि उल्लासवदित्यर्थः । 'रभसो वेगहर्षयोः' इति विश्वः । अत्र पद्यत्रये यथायोगं एकद्वियादिवर्णानामावृत्तवृत्त्यनुप्रासः । अत्र पूर्वत्र च स्वरसादृश्यमानुषङ्गिकम् । स्वरव्यञ्जनसादृश्यस्य यमकप्रयोजकत्वं वक्ष्यते।
अथ लाटानुप्रास:
तात्पर्यमात्रभिन्ना या शब्दार्थपुनरुक्तता। सोऽयं शाब्दः काव्यविद्भिर्लाटानुप्रास ईर्यते ॥
एवं वर्णगतमनुप्रासं प्रतिपाद्य वर्णसमुदायरूपशब्दगतमनुप्रासं निरूपयति-तात्पर्यमात्रेति । तात्पर्यमात्रभिन्नं शब्दार्थयोः पौनरुक्तयं यत् सोऽयं शब्दो वर्णसमूहः तत्संबन्धी शाब्दःलाटजनप्रियत्वालाटानुप्रास इति काव्यविद्भिरीर्यते। अत्र शब्द, पौनरुक्तयमात्रं यमकेऽप्यस्तीति तद्वारणायार्थपदम् । यमके चार्थभेदान तत्पौनरुक्तयम्। शब्दार्थपौनरुक्त्यमानं कथितपदत्वादिरूपदोषसाधारणमित्यतस्तात्पर्यमात्रभिन्नति विशेषणमिति ध्येयम् । वाक्यावृत्तौ पदावृत्तौ नामावृत्तौ च तत्रिधा ॥
सः लाटानुप्रासः वाक्यपौनरुक्तये सुबन्ततिङन्तपदपौनरुक्त्ये नानः प्रातिपदिकस्य पौनरुक्त्ये च त्रिविधो भवति । तत्राद्यो यथा
त्वं चेत्प्रसीदसि हरे वर्णाश्रमधर्मचर्यया किं नः। यदि न प्रसीदसि त्वं वर्णाश्रमधर्मचर्यया किं नः॥ २२३४॥