________________
162
अलङ्कारमणिहारे
दित्याकारकमब्ययं गतिः गतिसंज्ञकं भवंति। अथ समस्ता असक्रिया भवतीत्यप्युपस्कार्य । ‘गतिश्च' इत्यनुवर्तमाने ‘आदरानादरयोस्सदसती' इत्यादरानादररूपार्थयोर्विवक्षितयोस्सदसतोरव्यययोर्गतिसंज्ञायां 'कुगतिप्रादयः' इति गते स्समासविधानादिति भावः । अत्र प्रकृताप्रकृतश्लेषः । प्रकृतार्थकक्ष्यायां पूर्वोत्तरार्धगतं समालंकारद्वयं चेत्यर्थालंकारयोर्यमकस्य शब्दालंकारस्य चैकवाचकानुप्रवेशः ॥ .
यथावा
यो वर्धिष्णुस्सोऽयं श्रयते वृषशैलमाप्तशैत्यागम् । योऽवर्धिष्णुस्सोऽयं श्रयते वृषशैलमाप्तशैत्यागम् ॥ २२२० ॥
यः वर्धिष्णुः सोऽयं आप्त शैत्य यैस्ते अगाः वृक्षाः यस्मिंस्तं वृषशैलं श्रयते । द्वितीयार्धे यः अवर्धिष्णुःसोऽयं प्राप्तः शैत्यागः शै इत्याकारकवर्णस्य त्यागो येन सः दृषशैलं वृषलमित्यर्थः । 'वृषलाश्च जघन्यजाः' इत्यमरः । अत्र समस्यार्थालंकारस्य अर्थावृत्तिरूययमकलक्षणशब्दालंकारस्य चैकवाचकानुप्रविष्टता ॥
यथावा
यो भक्तस्तव मध्ये नाकस्थितिमान् सतां स मौलिभीयात् । योऽभक्तस्तव मध्ये ना कस्थितिमान सतां स मौळिर्भायात् ॥ २२२१ ॥
हे भगवन् ! यः तव भक्तः मध्ये नाकस्य मध्येनाकं स्थितिमान् त्रिदिवे वसन्नित्यर्थः । सतां तत्र विद्यमानानां देवर्षिप्रभृतीनां मौळिः किरीट इव भायात्। इन्द्रत्वेन प्रकाशेतेत्यर्थः । यः