________________
156
अलङ्कारमणिहारे
तस्मात्त्वमपि विप्रेन्द्र नारायणपरो भव । तदन्यः को महोदारः प्रार्थितं दातुमीश्वरः ॥
इति । अन्यं त्वदितरं वदान्यं वदान्यमन्यं त्वितिभावः । विपरीतलक्षणात् सुधातिशिशिरत्वादिलक्षणविप्रतीपात्तापकरत्वादिलक्षणात् दावं वनहुताशनामिव मन्ये। दुरुपसर्प दूरतस्त्याज्यं च जानामीति भावः। यद्वा अन्यं विपरीतलक्षणात् विरोधिलक्षणातः सा च जहत्स्वार्थलक्षणैव । यया स्वाभिधेयविपरीतार्थो लक्ष्यते । यथा ' उपकृतं बहुनाम' इत्यादी वदान्यं अवदान्यमित्यर्थः । दावं मन्ये उक्त एवार्थः। पक्षे अन्यं न्यवर्णशून्यं वदान्यं वदान्यशब्दं विपरीतं बिलोमं यथास्यात्तथा लक्षणात् वीक्षणात् दावं मन्ये दावशब्दं जाने। वदान्यशब्दो न्यवर्णविधुरो वदा इत्यवशिष्टः विलोमतया पठितो दाव इति निष्पद्यते । अस्मिन् पक्षे इवशब्दो वाक्यालंकारे । अत्र भगवत्तदितरयोर्वदान्यत्वे प्राप्ते भगवत्येव तनियमनात्परिसंख्या तयोरेवेन्दुत्वदावतुल्यत्वरूपवैलक्षण्यसद्भावाद्वयतिरेकश्च उपमाभ्यामेकवाचकानुप्रविष्टौ ॥
यथावासललिततमवलरिपुमणिफलकासु नरा विशा. लशालासु । कुरुविन्ददीपरुचिरास्वरविन्दाक्ष त्वदीक्षिता भान्ति ॥ २२१७ ॥
अत्र प्रतिपाद्यमानोऽर्थस्समृद्धिमद्वस्तुवर्णनात्मकतया उदात्तालंकाररूपः । असंबन्धे संबन्धकथनात्मकतया अतिशयोक्तिरूपश्च । न च सर्वत्र उदत्तस्यासंवन्धे संबन्धकथनरूपत्वं निर्णीत