________________
सकरसरः (१२१)
155
यथावा
दरसंयोग प्राप्तो जनस्त्वदीयो भवत्यमृतदोग्धा । युक्तमिदं त्वद्विमुखोऽपीहग्भवतीति नाथ चित्रमिदम् ॥ २२१५ ॥
हे नाथ! त्वदीयो जनः दरसंयोग अल्पकालसंसर्ग प्रातोऽपि अमृतदोग्धा निश्श्रेयसमार्गोपदेष्टा भवति ।
अहन्यहनि धर्मस्य योनिस्साधुसमागमः । मोहजालस्य योनिर्हि मूढेरेव समागमः ॥ इत्यादिकमिहानुसंधेयम् । इदं युक्तम् । त्वद्विमुखोऽपि ईहक् दरसंयोगं प्राप्तोऽमृतदोग्धा भवतीति चित्रम् । दकारेरफरूपसंयोग प्राप्तः अमृतदोग्धा अमृतद्रोग्धेति वस्तुस्थितिः। समतुल्ययोगितयोरेकवाचकानुप्रवेशः ॥
यथावा
त्वं ननु भवसि वदान्यस्सुधातिशिशिरः पृदाकुशैलेन्दो । विपरीतलक्षणादिह वदान्यमन्यं तु दावमिव मन्ये ॥ २२१६ ॥
हे पृदाकुशैलेन्दो! त्वं ननु त्वमेव 'प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु' इत्यमरः । सुधेव अतिशिशिरः अतिवेलकृपाशीतल इत्यर्थः। इन्दुपक्षे सुधया अतिशिशिर इति । वदान्यः 'प्रियवाग्दानशीलश्च वदान्यः परिकीर्तितः' ‘य आत्मदा बलदा' इति श्रुतात्मपर्यन्तसर्वस्वदाता त्वदन्यो महावदान्यः क इति भावः । यथाचोच्यते श्रीविष्णुधर्मे
ALANKARA IV.
13*