________________
संकरसरः (१२१)
135
किंशब्दयोरन्तराळे समं स्वं परं अवरं अन्यश्च समस्वपरावरान्यशब्दान् नात्र क्रमाविवक्षा। आदधत् न्यदधात् । दधातेः परस्मैपदिनो लङ् । अन्ततः गणावसाने किं किंशब्द: स्यात् तेन न्यस्तो भवेत् । सर्वादिगणे आदौ सर्वविश्वशब्दयोः अन्तराळे समपरावरान्यशब्दानामवसाने किंशब्दस्य च दर्शनादिति भावः । अत्र परब्रह्माणि प्रस्तुते अप्रस्तुतस्य शाब्दिकमुनेवृत्तान्तः प्रतीयत इति समासोक्तिः । श्रुत्युक्तस्य सृष्टयादेः शब्दनयसिद्धसर्वादिगणप्रक्रियायाश्च क्रमेण न्यसनाद्रत्नावळी च श्लेषसंकीर्णे एकवाचकानुप्रविष्टे इति द्रष्टव्यम् ॥
यथावा
भवदुभयान्यतरस्य स्वरूपमिह सर्वमुखगणे गणनीयम् । भविता श्रीसख न तथा जात्वपि चरमाल्पकतिपयान्यतमस्य ॥ २१९२॥
हे श्रीसख! इदं च वक्ष्यमाणार्थोपस्कारकम् । भवदुभयान्यतरस्य श्रीश्च भवांश्च भवन्तौ 'त्यदादीनि सर्वैर्नित्यम्' इति भवच्छब्दैकशेषः। भवद्रूपं यदुभयं मिथुनं तदन्यतरस्य श्रियाः भवतश्चेति भावः । स्वरूपं सर्वकारणत्वसर्वशेषित्वादिरूपं इह लोके सर्वेषां जनानां मुखगणे वदनसमूहे गणनायं सर्वैरपि सर्वत्र कण्ठरवेण प्रतिपाद्यमिति भावः । चरमे अक्तिनाः अल्पे निहीनाः ये कतिपयाः चतुर्मुखादयोऽपीति भावः । तेष्वन्यतमस्य यस्यकस्यापीति भावः। स्वरूपं तथा सर्वमुखगणगणनीयं न भविता। सर्वेषामप्यतथात्वादिति भावः ॥ .
पक्षे-भवांश्च उभयश्चान्यतरश्च एतेषां समाहारः तस्य भवदुभयान्यतरस्य । एतेषां शब्दानां स्वरूपं इह शब्दशास्त्रे