________________
134
अलंकारमणिहारे
ब्दश्च सर्वनामवाच्यः सर्वनामसंज्ञकत्वेनोक्त इत्यर्थः । तत्र हेतुमाह-यत् यस्मात् सर्वादिगणस्यान्ते मध्ये स्थितः ‘सर्षादीनि सर्वनामानि' इत्यनुशासनादिति भावः । इह अस्मिन् सर्वादि. गणे नेमं नेमशब्दं त्यं त्यच्छन्दं च ब्रुवे पठामि । तथा कमपि किंशब्दमपि सर्वाद्यन्तस्थितं वे इति योजना। किंशब्दस्य सर्वादिगणावसाने पठितत्वात् । समासोक्तिप्रतीपभेदयोरेकवाचकानुप्रवेशसंकरः॥
यथावा
आदौ सर्व व्यदधात्तदनु च तद्ब्रह्म विश्वमवति समम्। अन्तस्स्वं परमवरं चादधदिदमन्यदन्ततः किं स्यात् ॥ २१९१ ॥
तब्रह्म आदौ अग्रे सर्व व्यदधात् असाक्षीत् । तदनु सर्जनातन्तरं सम मया श्रिया सहितं तब्रह्म विश्व अवति रक्षति ॥
लक्ष्मया सह हृषीकेशो देव्या कारुण्यरूपया। रक्षकस्सर्वसिद्धान्ते वेदान्तेष्वपि गीयते ॥
इत्युक्तेः । अन्ततः प्रळयावसरे परं ब्रह्मादिकमुत्कृष्टं अवरं तदितरमपकृष्टं च इदं विश्वं अन्तस्स्वं स्वस्मिन्नित्यर्थः आदधत् न्यस्यत् अन्यत् किं स्यात् सर्जनावनकर्तृ ब्रह्मव्यतिरिक्तं संहर्तृ वस्तु किमितरत्स्यात् । तस्यैव ‘यतो वा इमानि भूतानि जायन्ते' इत्यादिश्रुतिभिर्जगजन्मस्थेमप्रळयहेतुताप्रतिपादनादिति भावः । अत्र “कस्योदरे हरविरश्चिमुखः प्रपञ्चः को रक्षतीममजनिष्ट च कस्य नाभेः" इत्यादिकमपि स्मर्तव्यम् ॥ - पक्षे तब्रह्म आदौ सर्वादिगणस्यारम्भे सर्व सर्वशब्द व्यदधात् विधत्ते स्म । तदनु सर्वशब्दन्यासानन्तरमेव विश्व विश्वशब्दं च अवति रक्षति न्यस्यतीति भावः । अन्तः विश्व