________________
122
1
अवाग्रः अवनतः अवाग्रेऽवनतानतम् ' इत्यमरः । अवाङ्मुख इति यावत् । ज्या भूमिः श्लिष्टा आलिङ्गिता येन स तथोक्तः असि । भूमाववाङ्मुखतया निपतितस्तत उत्थातुमक्षम इति भावः पक्षे जी इत्याकारकवर्णेन आश्लिष्टः युक्त इत्यर्थः वाग्र इति छेदः । वेत्याकारकं वर्ण अग्रे यस्य स तथोक्तः । जीवेति वर्णद्वयमात्रपरिशिष्टस्य ताद्विध्यादिति भावः । निराकृतोऽयं राजीवः कुतस्तत्प्रतीकारक्षमो नाभूदित्यत्राह -- स्वल्पेति स्वल्पप्राणः अल्पशक्तिः आत्मा देहो यस्य स तथोक्तः तस्य । पक्षे राजोवेति शब्दोऽपप्राणवर्णात्मक इत्यर्थः । तस्य वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ यरलवाश्चाल्पप्राणाः' इत्युक्तेः । स्थितिस्तु इयती एतावती अल्पप्राणस्य वैरिभिर्निराकृतत्वेऽपि प्रतीकाराक्षमतया तूष्णीं भूमाववाङमुखतया शयनमित्येतावत्येवावस्थितिरिति भावः। अन्यत्र राजीवेत्यस्याल्पप्राणात्मकस्य शब्दस्य स्थितिरेतावतीत्यर्थः । अत्राप्रस्तुतस्य राजीवस्य निराकरणादिकार्यवर्णनेन तत्कारणस्य प्रस्तुतस्य रमानयनस्य लोकोत्तरथाळथळ्यचाश्चल्यादिप्रतीतेः कार्यनिबन्धनाप्रस्तुतप्रशंसा । मीनहरिणयोः राजीवशब्दस्य चाप्रकृतानां श्लेषः । निराकृतत्वस्य जीवमात्र परिशिष्टतां प्रति तस्याश्च ज्याश्लिष्टतादि प्रति हेतुत्वात्कव्यलिङ्गं सामान्येन विशेषसमर्थनरूपार्थान्तरन्यासश्चेत्येतानि एकवाचकानुप्रविष्टानि ॥
"
6
यथावा
जेतुं त्वद्वक्षोजावरिभावात्के विभिन्नमापे नालम् । आस्ताम्ब नारिकेलं क्लीवाल्पप्राणमयगतिस्त्वियती ॥ २१८१ ॥
हे अम्ब ! नारिकेलं नारिकेलफलम् । क्लीबनिर्देशो निष्पौरुष