________________
120
अलंकारमणिहारे
दिव्यदंपती लक्ष्मीनारायणौ उभौ द्वावपि युवामिति भावः । चिदचिद्वरौ स्वभावान्यधाभावस्वरूपान्यधाभावलक्षणविकारविरहेण चेतनाचेतनापेक्षया श्रेष्ठौ तद्विलक्षणाविति यावत् । अत एव जगत्याः जगतः ईश्वरौ । न संदेहः उभयाधिष्ठानत्वादैश्वर्यस्य नात्र संदेग्धव्यमिति भावः । एवमुभयोस्तौल्यमुक्तम् । वैलक्षण्यमाह-किंतु स्त्रीपुंसरूपमात्रे स्त्रीपुरुषरूपमात्रे भिन्नौ ननु तावन्मात्र एव भिदुरौ न तु जगदीश्वरत्वे इति भावः । अत्र -
त्वं यादृशोऽसि कमलामपि तादृशीं ते . दारान्वदन्ति युवयोर्न तु भेदगन्धः । मायाविभक्तयुवती तनुमेकमेव
त्वां मातरं च पितरं च युवानमाहुः ॥ इति श्रीविष्णुवै भवाधिकारैरुक्तमनुसंधेयम् ।
अन्यत्र ननु दिव्यदंपती हे लक्ष्मीनारायणाविति संबोधनम् । जगति लोके ईश्वरौ ईश्वरशब्दौ चिदचिद्वरौ चित् चकारेत्कः अचित् चकारेत्कभिन्नः टकारेत्क इति यावत् । चिदचितौ वरौ वरप्रत्ययौ ययोस्तो 'ईश ऐश्वर्ये' इत्यस्माद्धातो: 'स्थेशभासे' इत्यादिना वच्प्रत्ययेन 'अशू व्याप्तौ' इति धातोः 'अश्नोतेराशुकर्मणि वर च' इति वरट्प्रत्ययेन च निष्पन्नाविति भावः । किंतु स्त्रीपुंसरूपमात्रे स्त्रीलिङ्गपुल्लिङ्गरूपमात्रे भिन्नौ । स्त्रीलिङ्गत्वे वरचा निष्पन्नस्य ईश्वरशब्दस्य दापि ईश्वरेति वरटा निष्पअस्य तु 'डिट्ठ' इति ङीपि ईश्वरीति रूपम् । पुल्लिङ्गत्वे तु उभयथाऽपीश्वर इत्येव रूपमिति तये र्भेद इति भावः । अत्र प्रकृताप्रकृतश्लेषव्यतिरेकयोरेकवाचकानुप्रवेशसंकरः ॥