________________
संकरसरः (१२१)
117
शादिति भावः। अश्चिता अश्चितेत्याफारशब्दस्तु नित्य उदात्तप्रकृतिः उदात्तभूता अञ्चधातुरूपा प्रकृतिर्यस्य स तथा अतएव कवा इडितो न इडागमविशिष्टो न स्यात् उदात्तत्वात् 'आर्धधातुकस्येवलादेः' इतीडागमं प्राप्त एव भवेदिति भावः । अत्र विशिष्टो वाक्यार्थस्समासोक्तिरूपः काव्यलिङ्गरूपाभ्यां वाक्यार्थाभ्यामकवाचकानुप्रवेशसंकोर्णः ॥
यथावा
शेषगिरीश्वर भवतो वशगौ खगभुजगतल्लजौ यस्मात् । भजतो नित्यसमासं मन्ये सदविग्रहावेतौ ॥ २१७६ ॥ ___ हे शेषगिरीश्वर श्रीनिवास! पक्षे शेषगिरि व्याकरणे ईश्वर समर्थेति कस्यचिद्विदुषस्संबोधनम्। 'स्वामीश्वर' इत्यादिना सप्त. मी। प्रशस्तौ खगभुजगौ खगभुजगतल्लजौ ‘प्रशंसावचैनश्च' इति समासः । तायशेषावित्यर्थः । पक्षे खगतल्लजः भुजगतल्लज इत्येतो शब्दावित्यर्थः । यस्माद्धेतोः नित्यसमासं 'आस उपवेशने' भावे घञ् । समश्चासावासश्चेति विग्रहः । तुल्यावस्थानं सहावस्थितिमित्यर्थः । पक्षे नित्यं समस्ततां भजतः। कृष्णसर्पवाप्यश्वादिवदेते नित्यसमासाः' इति 'मतल्लिका मचर्चिका' इत्यत्र सुधाकारादयः । नत् तस्मात् एतौ खगतल्लजभुजगतल्लजशब्दो अविग्रहो वृत्त्यर्थावबोधकवाक्यविरहितौ । यद्वा अस्वपदविग्रही मन्ये । अन्यथा नित्यसमासं न प्राप्नुत इति भावः । 'अविग्रहो नित्यसमासः अस्वपदविग्रहो वा। वृत्त्यर्थावबोधकबाक्यं विग्रहः' इति शाब्दिकाः । अत्र श्लेषानुमानयोरेकवाचकानुप्रचशः ।।
यथावानक्षत्रपथोल्लङ्घी नवधनराज्याभिषेकमभिगमि